ऋग्वेदे सूक्तानां सम्पूर्ण-संख्या 1028 अस्ति । एतेषु सूक्तेषु प्रायश: सर्वाणि सूक्तानि एव महत्वपूर्णानि सन्ति किन्तु विशिष्टसूक्तानि तेषु अपि सन्ति किंचन् । तेषां सूक्तानां संक्षिप्तपरिचय: दीयते अत्र ।
अस्यवामीयसूक्तम् (1.164) - ऋग्वेदस्य प्रथमस्य मण्डलस्य 164तमं सूक्तम् अस्ति अस्यवामीयसूक्तम् । अस्मिन् सूक्ते सृष्टिरचनाया: अद्भुतं विज्ञानं दर्शितं वर्णितं चास्ति । इदं सूक्तम् अस्माकं पूर्वजानां मुनीनां दूरदृष्टे:, वैज्ञानिकउन्नते: च परिचयं प्रददाति । अस्मिन् सूक्ते विभिन्नानि तथ्यानि यथा - सूर्येण एव पृथिव्या: उत्पत्ति:, सूर्ये एव पृथिव्या: शक्ति: निहिता, मेघेषु उर्वराशक्ति:, मेघानां सूर्यकिरणानां सम्पर्के आगते सति एव नाद:, सूर्येण एव सर्वा: ऋतव:, रात्रि:, दिवस: च भवति इति, सूर्य: एव वर्षाया: प्रधानकारणम् इत्यादीनि वैज्ञानिक तथ्यानि सन्ति; सहैव आकाश: अस्माकं पितातुल्य:, पृथिवीमातातुल्या च इति राष्ट्रिय-चेतना वर्णनमपि प्राप्यते । अन्यविधासु अपि अस्य सूक्तस्य महत्ता जगद्विदितमस्ति ।
विश्वामित्र-नदीसंवादसूक्तम् (3.33) - एतत् सूक्तमपि प्रमुखसूक्तेषु वर्तते । अस्मिन् सूक्ते महर्षि: विश्वामित्रेण विपाट्-शतुद्री च इति नामके द्वाभ्यां नद्यो: आराधनमस्ति । विश्वामित्र: आर्यधर्मस्य प्रसाराय विदेशं गन्तुं सेनया सह नद्यौ समीपं गच्छति । ते च स्वधारयो: अधोक्रियन्तां च इति निवेदयति । अस्मिन् एव क्रमेण स: वारंवारं नद्यौ माता इति सम्बोधयति । राष्ट्रिय-चेतना-विषयकं प्राधान्यं वहति एतत् सूक्तम् ।
यम-यमीसंवादसूक्तम् (10.10) - ऋग्वेदस्य एतत् सूक्तं मर्यादारक्षणविषये अत्यन्तं महत्वपूर्णमस्ति । यमस्य सहोदरा भगिनी यमी यमस्योपरि एव आसक्ता भवति । सा यमं पतिरूपेण ग्रहीतुमिच्छति । किन्तु यमेन तस्या: सर्वा: प्रयत्ना: विफलीकृता: मर्यादाया: नूतनं प्रतिमानं च स्थापितम् ।
पुरुषसूक्तम् - पुरुषसूक्तस्य प्राधान्यम् अनेन एव ज्ञातुं शक्यमस्ति यत् पुरुषसूक्तं सर्वेषु वेदेषु प्राप्यते । पुरुष सूक्ते सृष्ट्यारम्भे जायमनस्य प्रथमस्य यज्ञस्य विषये वर्णितमस्ति । एतत् सूक्तं सामाजिकसौहार्दवर्धनाय एकं महदुपायम् इति दृष्यते ।
पुरुरवा-उर्वशी-संवादसूक्तम् - ऋग्वेदस्य दशममण्डलस्य 95तमं सूक्तम् अस्ति पुरुरवा-उर्वशी-संवादसूक्तम् । अस्मिन् सूक्त्ेा राज्ञ: कर्तव्यं प्रकटितमस्ति । पुरुरवा एक: महाराज: किन्तु पथभ्रष्ट अभवत् सन दुर्गतिं प्राप्वान् । अस्मिन् सूक्ते विभिन्ना: सूक्तय: अपि उक्ता: सन्ति ।
सरमा-पणि-संवादसूक्तम् (10.108) - पणय:दस्यव: सन्ति । ते देवानां गोधनं चोरयन्ति । देवगुरुवृहस्पति: सर्वान् वृत्तान्तान् इन्दं बोधयति । इन्द्र: स्वशुनिं सरमां पणीनां पार्श्वे दूतरूपेण प्रेषयति । सरमा तत्र गत्वा देवानां प्रभाववर्णनं करोति । पणय: सरमां आत्मनि मेलयितुम् इच्छन्ति किन्तु सरमा नैव मन्यते । एवं विधा सरमा दूतस्य सम्यकनिर्वहनं करोति । अन्या: विभिन्ना: नीतय: अपि सन्ति अस्मिन् सूक्ते ।
हिरण्यगर्भसूक्तम् (10.121) - हिरण्यगर्भसूक्ते अपि सृष्टिरचनाया: विषये विभिन्नानि तथ्यानि प्रस्तुतानि सन्ति । अस्मिन् सूक्ते एव प्रथमवारं वर्णितमस्ति यत् - नक्षत्रा: अन्तरिक्षे गुरुत्वाकर्षणशक्त्या आधारेण विना दोलयन्ति । अन्यमहत्वपूर्णविषयानाम् उद्घाटनमपि कृतमस्ति अस्मिन् सूक्ते ।
वाक्-सूक्तम् (10.125) - अस्मिन् सूक्ते वाणीमहिमा वणितमस्ति । देवी वाक् महर्षे: अम्भृणस्य पुत्री अस्ति । सा आत्मसाक्षात्कारं प्राप्य आत्मन: एव स्तुति: करोति । आत्मस्तुति: कुर्वन्ती एव सा सर्वेषां देवानां कारणं आत्मनमेव वदति ।
अन्यानि सूक्तानि अपि सन्ति महत्वपूर्णानि । किन्तु एतानि सन्ति सर्वतो महत्वपूर्णानि सूक्तानि अत: एतेषां एव सूक्तानां अत्र प्रस्तुतीकरणं क्रियते ।
0 टिप्पणियाँ