अलंकार शब्दस्य सामान्यार्थ: भवति- आभूषणम् । 'अलम्' अव्ययपूर्वकं 'कृ' धातुना 'घय्ं' प्रत्ययप्रयोगे निष्पन्नो भवति । अस्य तिस्र: व्युत्पत्तय: सन्ति -
1. अलंकरोति इति अलंकार: (कर्तृप्रधानव्युत्पत्ति: इयम्, अस्यार्थ: - शब्दार्थौ सुशोभयति स:),
2. अलंक्रियते अनेन इति अलंकार: (करणप्रधानव्युत्पत्ति: इयम्, अस्यार्थ: - शब्दार्थयो: अलंकरणं कृयते येन),
3. अलंकरणम् अलंकार:/अलंकृति: अलंकार: (भावप्रधानव्युत्पत्ति: इयम्, अस्यार्थ: - अलंकरणस्य भाव: एव अलंकार:) ।
अलंकार: साहित्यशास्त्रस्य महत्वपूर्र्म् अंगमस्ति । भगवता वेदव्यासेन अस्य महत्ताप्रतिपादनं कुर्वन् उक्तमस्ति यत् - अलंकारविहीनं काव्यं विधवास्त्रीसदृशं भवति । महाकवि पीयूषवर्ष जयदेव: स्वग्रन्थे 'चन्द्रलोके' उक्तवान् अस्ति -
''अंगीकरोति य: काव्यं शब्दार्थावनलंकृती ।
असौ न मन्यते कस्मादनुष्णमनलंकृती ।।
भामह आचार्य: अलंकारविषये वदति - ''न कान्तमपि निर्भूषं विभाति वनिताननम्'' (आभूषणेन विना सुन्दरी स्त्री अपि न शोभते) ।
आचार्य दण्डी काव्यसुशोभकधर्माणि अलंकार: स्वीकृयते - ''काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते'' ।
ध्वनिवादी आनन्दवर्धनाचार्येण स्पष्टशब्देषु अलंकारं साहित्यस्य चारुत्वहेतु: स्वीकृतमस्ति - ''अलंकारो हि चारुत्वहेतु: प्रसिद्ध:'' ।
वक्राक्तिजीवितप्रणेता आचार्य कुन्तक: काव्यस्य प्रतिभोत्तिथतवैचित्र्यं अलंकार: इति स्वीकृयते - ''वैचित्र्यमलंकार:..................कविप्रतिभोत्थित: विच्छित्ति विशेष: अलंकार:'' ।
आचार्यमम्टस्य उक्तिरस्ति -
''उपकुर्वन्ति तं सन्तं येंगद्वारेण जातुचित् ।
हारादिवदलंकारास्ते अनुप्रासोपमादय:'' ।।
साहित्यदर्पणकार विश्वनाथानुसारम् -
''शब्दार्थयोरस्थिरा ये धर्मा: शोभातिशायिन: ।
रसादीनुपकुर्वन्तो अलंकारास्तेदंगदादिवत् ।।
सम्पूर्णस्य निष्कर्ष: अस्ति यत् यथा विभिन्नानि आभूषणानि मनुष्याणां श्रीवृद्धि: कुर्वन्ति तथैव अलंकार: साहित्यस्य श्रीवृद्धि: (शोभावर्धनं) कुर्वन्ति ।
अलंकारस्य उद्भवविकास: च -
महाकवि राजशेखरस्य 'काव्यमीमांसाया:' तृतीये अध्याये वर्णनमस्ति यत् - पुत्रकामनया सरस्वती ब्रह्मनं पूजितवती । तस्या: आराधनया सन्तुष्ट: ब्रह्मा तां 'काव्यपुरुषस्य' जननी अकारयत् । स: शिशु: छन्दोमयि वाण्यां उक्तवान् -
''यदेतद् वाड्.मयं विश्वमर्थमूर्त्या विवर्तते ।
सोस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ ।।
अर्थात् ''भो माता । येन सम्पूर्णं वाड्.मयम् अर्थरूपे प्रकट्यते, सोस्मि अहं काव्यपुरुषम् । भवत्या: चरणौ प्रणमामि ।''
काव्यपुरुषस्य छन्दोमयी वाणीं श्रुत्वा भगवती प्रसन्ना सन् तं बालकम् अंके संस्थाप्य सराहनां प्रारब्धवती । - ''त्वत: पूर्वे हि विद्वांसो गद्यं ददृ...; शुर्न पद्यम् अहो श्लाघनीयोसि । शब्दार्थौ ते शरीरम् । संस्कृतं मुखम् । प्राकृतं बाहु: । जघनम् अपभ्रंश: । पैशाचं पादौ । उरो मिश्रम् । सम: प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिवर्णं ते वचो रस आत्मा, रोमाणि छन्दांसि, प्रश्नोत्तर-प्रवह्लिकादिकंच वाक्केलि:, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति ।''
काव्यपुरुषस्य प्रशंसायां शब्दार्थ-समष्टि: तस्य शरीरम्, अनुप्रासोपमादय: आभूषणं च उक्तमस्ति ।
अलंकारस्य प्राचीनप्रयोगम् -
ऋग्वेदे (1.29.3) 'अरंकृति' शब्दस्य प्रयोग: प्राप्त: अस्ति य: निश्चयेन अलंकृति: एव रलयोरभेदेन ।
आचार्य यास्केन (700 ई.पू.) उपमाया: विवेचनं कृतम् । किन्तु तेन अलंकारस्य संज्ञा न दत्ता । -
''उपमा यत् अतत् तत्सदृशमिति गार्ग्य: । तदासां कर्म ज्यायसा वा गुणेन प्रख्याततमेन वा कनीयांसं वा प्रख्यातं वोपमीयते, अथापि कनीयसा ज्यायांसम् ।।'' (निरुक्तम् 2-13)
महर्षि पाणिनिना (500 ई.पू.) आचार्य पतंजलिना (200 ई.पू.) च उपमास्वरूपं स्पष्टयन् उक्तमस्ति -
1. ''तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्'' (अष्टाध्यायी 2.3.72)
2. ''उपमानानि सामान्यवचनै:'' (अष्टाध्यायी 2.1.55)
3. ''उपमितं व्याघ्रादिभि: सामान्यप्रयोगे'' (अष्टाध्यायी 2.1.56)
4. ''मानं हि नाम अनिर्ज्ञातार्थमुपादीयते अनिर्ज्ञातमर्थ ज्ञास्यामिति । तत्समीपं यत् नात्यन्ताय मिमीते तद् उपमानं गौरिव गवय इति ।'' (महाभाष्यम् 2, 1, 55)
आचार्य भरतेन सर्वप्रथमं नाट्यशास्त्रे उपमादीनि अलंकारम् इति संज्ञया विधिवत् व्याख्यानेन सह प्रस्तुतं कृतम् । तेन उपमा, रूपकं, दीपकं, यमकं च अलंकारम् इति संज्ञा प्रदत्ता । तदनन्तरं अलंकाराणां बहुश: प्रयोग: अभवत् । एषा अलंकारसंख्या विकासं प्राप्नुती 17ई. पर्यन्तं 127 अभवत् । आचार्य भरतस्य अनन्तरं ये आचार्या: अलंकारं स्वीकृतवन्त: ते सन्ति - आचार्य भामह (38 अलंकारा:), भट्टोद्भट (41 अलंकारा:), राजा भोज (72 अलंकारा:), हेमचन्द्र: (35 अलंकारा:), वाग्भट्ट (39 अलंकारा:), वाग्भट्ट द्वितीय: (69 अलंकारा:), मम्मटाचार्य: (67 अलंकारा:), आचार्य विश्वनाथ: (78 अलंकारा:), पण्डितराज जगन्नाथ: (40 अलंकारा:), अप्पय दीक्षित: (125 अलंकारा:) ।
जूनागढ अभिलेगे (150 ई.पू.) अपि 'अलंकृत' गद्यस्य पद्यस्य च चर्चा अभवत् -
''स्फुटलघुमधुरचित्रकान्तसमयोदारालंकृतगद्यपद्य''
अग्रे गत्वा अलंकाराणां तावत् प्रयोग: प्रारब्ध: यत् आचार्य भामह, रुद्रट, उद्भटादय: तु काव्यशास्त्राय ''अलंकारशास्त्रम्'' इति शब्दप्रयोगम् आरब्धवन्त: ।
एवं विधा वयं पश्याम: यत् एतेषाम् अलंकाराणां प्रयोगपरम्परा अत्यन्तप्राचीना विद्यते । ऋग्वेदस्य उषस् सूक्ते (1.124.7) उपमालंकारस्य स्पष्टप्रयोग: प्राप्यते । -
''अभ्रातेव पुंस एति प्रतीची, गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा, उषा हस्रेव निरिणीते अप्सु ।।''
परवर्ती आचार्य: राजशेखरेण ता: उपमा: एव अलंकारस्य मूलजननी इति स्वीकुर्वन् उक्त: -
''उपमा कविवंशस्य मातैवेति मतिर्मम ।।''
चित्रमीमांसाकारअप्पयदीक्षितस्य मतम् -
''उपमैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् ।
रंजयति काव्यरंगे ऩत्यन्ती तदिवदां चेत: ।।''
अनेन प्रकारेण वयं पश्याम: यत् वैदिककालात् आरभ्य आचार्यमम्मटस्य कालपर्यन्तं (1100 ई. पर्यन्तम्) नूतन अलंकारानाम् उद्भव: निरन्तरं विकास: च अभवत् ।
इति

टिप्पणियाँ
एक टिप्पणी भेजें