प्रायेण सर्वै: आचार्यै: शब्दार्थौ काव्यस्य शरीरमिति स्वीकृतमस्ति । अलंकारा: तस्य शब्दार्थरूपी-काव्यशरीरस्य शोभाधायकानि धर्माणि सन्ति । एतदर्थमेव काव्ये शब्दार्थयो: उत्कर्षाधायकं तत्वम् एव अलंकारस्य संज्ञा प्रदत्ता अस्ति । तात्पर्यमेतदस्ति यत् अलंकारस्य आधारौ शब्दार्थौ एव स्त: । एतदानुसारमेव अलंकारस्य द्विधा वर्गीकरणं कृतमस्ति ।
''ते च द्विविधा: शब्दगता: अर्थगताश्च ।''
अलंकारस्य द्विधा वर्गीकरणं सर्वप्रथमम् आचार्येण रुद्रटेन कृतम् -
''वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथापरं चित्रम् ।
शब्दस्यालंकारा: श्लेषोर्थस्यापि सोन्योस्तु ।। (काव्यालंकार: - 2.13)
अर्थस्यालंकारा: वास्तवमौपम्यतिशय: श्लेष: ।
एषामेव विशेषा अन्ये तु भवन्ति नि:शेषा: ।। (काव्यांलंकार: - 7.9)
यद्यपि अन्यै: आचार्यै: अपि अनेन प्रकारेण विभाजनस्य प्रयास: कृत: अस्ति, किन्तु आचार्यविश्वनाथेन कृतं विभाजनम् अत्यधिकं समीचीनं प्रतीयते । -
1. शब्दालंकार:, 2. अर्थालंकार:, 3. उभयालंकार: ।
1. शब्दालंकार: - य: अलंकार: शब्दानां सौन्दर्येण काव्यस्य शोभावर्धनं करोति स: शब्दालंकार: कथ्यते । अस्य लक्षणम् अस्ति - 'शब्दपरिवृत्यसहत्वम्' अर्थात् यत्र शब्दस्य परिवर्तनं कृत्वा तस्य पर्यायशब्दं स्थापयन्ति एवं च अलंकार: न दृष्यते चेत् अवगच्छेम यत् अलंकारस्य स्थिति: तस्य शब्दविशेषस्य कारणात् आसीत् । एतदर्थमेव स: शब्दालंकार: इति कथ्यते ।
2. अर्थालंकार: - ये अलंकारा: अर्थानां सौन्दर्येण काव्यस्य शोभावर्धनं कुर्वन्ति, ते अर्थालंकारा: । अस्य लक्षणम् अस्ति - 'शब्दपरिवृत्तिसहत्वम्' अर्थात् यत्र शब्दपरिवर्तनानन्तरम् अपि अलंकारस्य सत्ता न समाप्यते तत्र अर्थालंकार: भवति ।
3. उभयालंकार: - एष: अलंकार: शब्दार्थयो: द्वयो: अपि उपरि आधारितं भवति । अस्य लक्षणं 'शब्दपरिवृत्यसहत्वम्' एवं च 'शब्दपरिवृत्तिसहत्वम्' उभयमपि भवति । तात्पर्यमस्ति यत् अस्मिन् शब्दालंकारस्य अर्थालंकारस्य च उभयो: अपि गुणं सम्मिलितं भवति । अलंकारस्य अस्य प्रकारस्य स्थापना महाराजभोज: सम्पादितवान् , यत् मुख्यरूपेण तस्य समयपर्यन्तमेव संकुचितम् अभवत् । अस्यातिरिक्तम् आचार्यविश्वनाथेन 'पुनरुक्तवदाभासम्' इति नामकं केवलम् एकस्य अलंकारस्य एव उभयालंकारनिरूपणं कृतमस्ति साहित्यदर्पणस्य दशमपरिच्छेदे ।
टिप्पणियाँ
एक टिप्पणी भेजें