होलिकोत्‍सव कथा ।


      होलिकोत्‍सवस्‍य आयोजनं सम्‍पूर्णे भारतवर्षे भवति ।  प्रत्‍येकस्‍य वर्गस्‍य जना: मिलित्‍वा एतत् पर्वं मोदयन्ति ।  अस्‍य उत्‍सवस्‍य विषये एका प्राचीना कथा विद्यते । 
हिरण्‍यकश्‍यप: हिरण्‍याक्ष: च -
       सतयु्गे एक: महान् दानव: महर्षि कश्‍यपस्‍य पुत्र: हिरण्‍यकश्‍यप: आसीत् ।  तस्‍य अनुज: हिरण्‍याक्ष: अपि महान् बलशाली आसीत् ।  एतौ द्वौ अपि म‍हर्षिकश्‍यपस्‍य पत्‍नी दिते: सन्‍तानौ आस्‍ताम् ।
पृथ्‍वीहरणम् वाराहावतार: च -
एकदा हिरण्‍याक्ष: मदान्‍धं भूत्‍वा पृथिवीदेव्‍य: हरणं कृत्‍वा रसातले शयनार्थं गतवान् ।  रसातले स: पृथिवीं स्‍वसिरस: अध: स्‍थाप्‍य शंयनम् आरब्‍धवान् ।  पृथिव्‍या: एतां गतिं दृष्‍ट्वा देवा:, ऋषयाश्‍च चिन्तिता: अभवन् ।  ते मिलित्‍वा पितामह: ब्रह्मण: पार्श्‍वे गता: अनुनयं च आरब्‍धवन्‍त: । 
       ब्रह्मा अत्‍यन्‍तं चिन्तित: अभवत् ।  स: भगवत: श्रीनारायणं अस्‍मरत् ।  तत्‍क्षणमेव ब्रह्मण: नासिकात: एक: लघुवाराह: अप्रकटत् ।  स: वाराह: क्षणे एव वृहत्‍कायं भूत्‍वा रसातले प्रवृष्‍ट: ।  पृथ्‍वीं दन्‍तौ संस्‍‍थाप्‍य स: बहि: निर्गत: ।
हिरण्‍याक्षवधं पृथ्‍वीउद्धार: च -
       शयनं कुर्वन् हिरण्‍याक्षं देवर्षि: नारद: सर्वा: सूचना: अददात् ।  क्रुद्ध: हिरण्‍याक्ष: वाराहभगवत: युद्धम् आरभत् ।  पृथिवीं समुद्रस्‍योपरि संस्‍थाप्‍य भगवान् वाराह: हिरण्‍याक्षं हतवान् ।
हिरण्‍यकश्‍यपस्‍य कोप: तपाचरणं च -
       अनुजस्‍य वधं श्रुत्‍वा हिरण्‍यकश्‍यप: तपम् आरब्‍धवान् ।  वर्षेभ्‍य: तपमाचरन् ब्रह्मणं प्रासीद् ।  अमरताया: वरमयाचत् ।  न प्राप्‍यते अमरताया: वरमिति ब्रह्मणा निगदिते सति 'दिवसे रात्रौ च, अन्‍त: बहिश्‍च, आकाशे पाताले चापि' कुतश्चिदपि मरणं न प्राप्‍नोमि एतत् वरं ददातु इति उक्‍तवान् ।  ब्रह्मणा वरं प्राप्‍य बहुविधि अनाचारम् आचरितवान् । 
भक्‍तप्रह्लाद: -
       भगवत: कृपया तस्‍य एव पुत्र: प्रह्लाद: परमनारायणभक्‍त: अभूत् ।  स: बहुताटनं प्राप्‍ते सत्‍यपि भगवत: आराधनं न त्‍यक्तवान् ।  हिरण्‍यकश्‍यप: तस्‍मै सर्पदंशं, पर्वतात् पतनम् एवं च अन्‍यानि बहुविधानि कष्‍टानि अददात् ।
होलिकादहनम् -
        हिरण्‍यकश्‍यपस्‍य एका भगिनि ब्रह्मणा एव प्राप्‍तवरमासीत् यत् अग्‍नौ दाहं न प्राप्‍स्‍यति इति ।  सा प्रह्लादं स्‍वक्रोडे संस्‍थाप्‍य अग्‍नौ प्रविष्‍टा ।  किन्‍तु ब्रह्मणा प्रदत्‍तं वरं तत्रैव समाप्‍तमभवत् ।  होलिका तत्रैव प्रज्‍ज्‍वलिता मृता च ।  अग्‍ने: शमनं प्राप्‍ते सति प्रह्लाद: हसन् भगवन्‍नामस्‍मरन् चापि बहि: आगतवान् ।  भक्‍तस्‍य जय: अभवत्, कालुष्‍यमते: होलिकाया: विनाश: जात: ।  तदारभ्‍य एव होलिकादहनम् आरब्‍धम् जनै: ।
            भगवता नरसिंहेन हिरण्‍यकश्‍यपस्‍य विनाशं सम्‍पादितम् ।  प्रह्लाद: दानवेन्‍द्र: अभवत् ।  एषा कथा अस्ति होलिकोत्‍सवस्‍य ।


टिप्पणियाँ