अर्थालंकार - रूपक अलंकार:

 

निर्लुप्‍ते विषये (उपमेये) रूपितस्‍य (उपमानस्‍य) आरोप: रूपकअलंकार: कथ्‍यते ।

रूपकं रूपितारोपो विषये निरपह्नवे ।

अर्थात् यत्र अलोपस्‍य उपमेयस्‍योपरि उपमानस्‍यारोप: क्रियते तत्र रूपकअलंकार: भवति ।

रूपकअलंकारस्‍य प्रमुखा: त्रय: भेदा: सन्ति ।

(1) परम्‍परितरूपकम् ।

(2) सांगरूपकम् ।

(3) निरंगरूपकम् ।

उदाहरणम् -

पान्‍तु वो जलदश्‍यामा: शार्गंज्‍याघातकर्कशा: ।

त्रैलोक्‍यमण्‍डपस्‍तम्‍भाश्‍चत्‍वारो हरिबाहव: ।।

अत्र 'जलदश्‍यामा:', 'शार्गंज्‍याघातकर्कशा, त्रैलोक्‍यमण्‍डपस्‍तम्‍भाश्‍चत्‍वारो शब्‍देषु रूपकअलंकार: विद्यते ।  अत्र 'त्रैलोक्‍य' इत्‍यस्‍योपरि 'मण्‍डप' शब्‍दस्‍य, 'हरिबाहु' इत्‍यस्‍योपरि 'स्‍तम्‍भ' शब्‍दस्‍य पुनश्‍च 'त्रैलोक्‍य' इत्‍यस्‍यो‍परि 'मण्‍डप' इत्‍यस्‍य आरोप: अस्ति ।  अत: अत्र रूपकअलंकार: अस्ति ।

इति

टिप्पणियाँ