जालसूचिकानिर्माणानन्‍तरं भवन्‍त: सम्‍भवत: अस्‍या: प्रयोगमपि प्रारम्‍भं कृतवन्‍त: स्‍यु: ।  प्रायश: सूचिकानिर्माणसमये तकनीकिज्ञानाभावे वयम् अस्‍माकं सूचिकाया: सज्‍जा न कुर्म: ।  तस्‍य भित्तिफलकमपि परिवर्तनं न कुर्म: ।  साक्षात् यत् फलकं भवति तदेव भवति ।  किन्‍तु अनन्‍तरं यदा वयं जालसूचिकाया: सम्‍यकतया प्रयोगं प्रारम्‍भं कुर्म:, दश-पंचदश लेखान् लिखित्‍वा निवृत्‍तं भवाम: तदा अस्‍माकं मस्तिष्‍के आयाति यत् सूचिकाया: किंचित् सज्‍जा अपि भवेत् ।
सज्‍जाया: सर्वप्रथमा श्रृंखला, सर्वाधिकीमहात्‍वपूर्णश्रृंखला च अस्ति भित्तिफलकम् ।  भित्तिफलकं प्रत्‍येकस्‍य पृष्‍ठस्‍य, सूचिकाया: वा पृष्‍ठदृष्‍येन सहैव तस्‍य सम्‍पूर्णं प्रारूपं परिवर्तयति ।  अतएव यदि सूचिका प्रभावकारिणी निर्मातव्‍या चेत् भित्तिफलकं तु निश्‍चयेन आकर्षकं भवेत् इति ।  

अद्य अत्र वयं भित्तिफलकस्‍य परिवर्तनविषये जानिम: ।  एषा सूच‍ना केवलं ब्‍लागरस्‍थानके निर्मितानां सूचिकानां कृते अस्ति ।


1. सर्वप्रथमं तु भवद्भि: आत्‍मन: जालचालके (ब्राउजरमध्‍ये) ब्‍लागर.काम इति उद्घाटव्‍यम् ।  तत्र आवश्‍यकस्‍थाने आत्‍मन: प्रयोक्‍तानाम, प्रयोक्‍तागुप्‍तशब्‍द: च संयोज्‍य  प्रवेश: करणीय: ।
2. प्रवेशानन्‍तरं भवत: सूचिकानियन्‍त्रणपटलं स्‍वयमेव उद्घट्यते ।
3. चित्रे यथा निर्दिष्‍टमस्ति तत्रैव भवद्भि: अपि नोदनीय: ।
4. नोदनानन्‍तरं अध:पातसूच्‍यां टेम्‍प्‍लेट इति विकल्‍पे नोदनीय: । 5. नूतनपृष्‍ठस्‍य उद्घाटनपर्यन्‍तं प्रतीक्षा करणीया । 




6. नूतनपृष्‍ठे यथा चित्रे दत्‍तमस्ति अध: गत्‍वा विभिन्‍नफलकेषु एकं चयनीयम् ।
7. चयनानन्‍तरं तस्‍य (फलकस्‍य) अध: अप्‍लाई एज डिफाल्‍ट इति विकल्‍पं नोदनीयम् । 
8. पुन: नूतनपृष्‍ठस्‍य उद्घाटनानन्‍तरं प्रतीक्षा करणीय: ।  येषां पार्श्‍वे तकनीकिज्ञानं सम्‍यकतया अस्ति ते तु स्‍वबुद्धया अपि कस्‍टमाइज इति विकल्‍पस्‍य प्रयोगं कृत्‍वा भित्तिफलके विभिन्‍नसज्‍जां कर्तुं शक्‍यन्‍ते, किन्‍तु ये तकनीकिज्ञानं तावत् सम्‍यक् न वहन्ति ते कृपया उक्‍तविकल्‍पान् एव नोदयेयु:, अन्‍यानि तु त्‍यक्‍तव्‍यानि । 
 

9. उपर्युक्‍तविक्‍ल्पस्‍य चयनानन्‍तरं भवतां जालसूचिकाया: पूर्वदृष्‍यं (प्रिव्‍यु) दत्‍तचित्रवत् आगच्‍छति । 
10. यदि भित्तिचित्रेण भवन्‍त: सन्‍तुष्‍टा: चेत् साक्षात् अप्‍लाई टू द ब्‍लाग इति विक्‍ल्पं नोदयन्‍तु ।  नोचेत् अन्‍यान् भित्तिफलकान् अपि द्रष्‍टुं शक्‍यन्‍ते ।

परिवर्तनानन्‍तरं व्‍यू ब्‍लाग इति  विकल्‍पं नोदयित्‍वा आत्‍मन: सूचिकां पश्‍यन्‍तु ।

अग्रिम‍लेखे अन्‍येषां सुविधानां विषयेपि चर्चां कुर्म: ।  तावत् अलम् ।  

टिप्पणियाँ