स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः । । ४.१ । ।
न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिं ।
राज्ञां उद्धृतनाराचे हृदि शल्यं इवार्पितं । । ४.१* । ।
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितं ।
पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः । । ४.२ । ।
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः । । ४.३ । ।
समं एव समाक्रान्तं तस्योन्नयनपङ्क्तयः ।
तेन सिंहासनं पित्र्यं अखिलं चारिमण्डलं । । ४.४ । ।
छायामण्डललक्ष्येन तं अदृश्या किल स्वयं ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितं । । ४.५ । ।
परिकल्पितसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती । । ४.६ । ।
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा । । ४.७ । ।
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः । । ४.८ । ।
मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य फुष्पोद्गम इव प्रजाः । । ४.९ । ।
नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितं ।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः । । ४.१० । ।
पञ्चानां अपि भूतानां उत्कर्षं पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवं इवाभवथ् । । ४.११ । ।
यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनाथ् । । ४.१२ । ।
कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना । । ४.१३ । ।
लब्धप्रशमनस्वस्थं अथैनं समुपस्थिता ।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा । । ४.१४ । ।
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।
स्वं धनुः शङ्कितेनेव युगपद्व्यानशे दिशः । । ४.१५ । ।
अधिज्यं आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः ।
स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना । । ४.१५* । ।
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ । । ४.१६ । ।
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयां आस आसीत्समरसा द्वयोः । । ४.१७ । ।
प्रसादरीकातपत्रस्तं चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः । । ४.१८ । ।
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयय्स्तदीयानां पर्यस्ता यशसां इव । । ४.१९ । ।
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयं ।
आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः । । ४.२० । ।
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः । । ४.२१ । ।
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।
लीलाखेलं अनुप्रापुर्मोहक्षास्तस्य विक्रमं । । ४.२२ । ।
प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः । । ४.२३ । ।
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयां आस तं शक्तेः प्रथमं शरथ् । । ४.२४ । ।
सम्यक्तस्मै घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ । । ४.२५ । ।
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलं आदाय प्रतस्थे दिग्जिगीषया । । ४.२६ । ।
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतं । । ४.२७ । ।
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः । । ४.२८ । ।
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।
भुवस्तलं इव व्य्ॐअ कुर्वन्व्य्ॐएव भूतलं । । ४.२९ । ।
प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरं ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः । । ४.३० । ।
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः । । ४.३१ । ।
पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः ।
पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः । । ४.३१* । ।
स सेनां महतीं कर्षन्पूर्वसागरगामिनीं ।
बभौ हरजटाभ्रष्टां गङ्गां इव भगीरथः । । ४.३२ । ।
त्याजितैः फलं उत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः । । ४.३३ । ।
पौरस्त्यानेवं आक्रामंस्तांस्ताञ्जनपदाञ्जयी ।
प्राप तालीवन्श्यामं उपकञ्ठं महोदधेः । । ४.३४ । ।
अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्मैर्वृत्तिं आश्रित्य वैतसीं । । ४.३५ । ।
वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोऽन्तरेषु सः । । ४.३६ । ।
आपादपद्मप्रणताः कलमा इव ते रघुं ।
फलैः संवर्धयां आसुरुत्खातप्रतिर्पिताः । । ४.३७ । ।
स तीर्त्वा कपिषां सैन्यैर्बद्धद्विरदसेतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ । । ४.३८ । ।
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयथ् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः । । ४.३९ । ।
प्रतिजग्राह कालिङ्गस्तं अस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः । । ४.४० । ।
द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनं ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियं । । ४.४१ । ।
वायव्यास्त्रविनिर्धूतात्पक्षाविद्धान्महोदधेः ।
गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पं इवाददे । । ४.४१* । ।
ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।
नलिकेरासवं योधाः शात्रवं च पपुर्यशः । । ४.४२ । ।
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीं । । ४.४३ । ।
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्याचरितां आशां अनाशास्यजयो ययौ । । ४.४४ । ।
स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयां इवाकरोथ् । । ४.४५ । ।
बलैरधुषितास्तस्य विजिगीषोर्गताध्वनः ।
मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः । । ४.४६ । ।
ससञ्जुरश्वक्षुण्णानां एलानां उत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः । । ४.४७ । ।
आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवं ।
व्यानशे सपदि व्य्ॐअ त्रिपदीछेदिनां अपि । । ४.४७* । ।
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितं ।
न्ऽआस्रसत्करिणां ग्रैवं त्रिपदीछेदिनां अपि । । ४.४८ । ।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यां एव रघोः पाण्ड्याः प्रतापं न विषेहिरे । । ४.४९ । ।
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुस्तस्मै यशः स्वं इव संचितं । । ४.५० । ।
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ । । ४.५१ । ।
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।
रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः । । ४.५३ । ।
भयोत्सृष्टविभूषाणां तेन केरलयोषितां ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः । । ४.५४ । ।
मुरलामारुतोद्धूतं अगमत्कैतकं रजः ।
तद्योधवारबाणानां अयत्नपटवासतां । । ४.५५ । ।
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः । । ४.५६ । ।
खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु ।
कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः । । ४.५७ । ।
अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करं । । ४.५८ । ।
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणं ।
त्रिकूटं एव तत्रोच्चैर्जयस्तम्भं चकार सः । । ४.५९ । ।
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी । । ४.६० । ।
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपं इवाब्जानां अकालजलदोदयः । । ४.६१ । ।
संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूथ् । । ४.६२ । ।
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीं ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव । । ४.६३ । ।
अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनां । । ४.६४ । ।
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमं ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु । । ४.६५ । ।
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशं ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यं रसानिव । । ४.६६ । ।
जितानजय्यस्तानेव कृत्वा रथपुरःसरान् ।
महार्णवं इवौराग्निः प्रविवेशोत्तरापथं । । ४.६६* । ।
विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् । । ४.६७ । ।
तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमं ।
कपोलपाटलादेशि बभूव रघुचेष्टितं । । ४.६८ । ।
काम्बोजाः समरे सोढुं तस्य वीर्यं अनीश्वराः ।
गजालानपरिक्लिष्टैरक्षोटैः सार्धं आनताः । । ४.६९ । ।
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरं । । ४.७० । ।
ततो गौरीगुरुं शैलं आरुरोहाश्वसाधनः ।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः । । ४.७१ । ।
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमं ।
गुहाशयानां सिंहानां परिवृत्यावलोकितं । । ४.७२ । ।
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे । । ४.७३ । ।
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः । । ४.७४ । ।
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ।
आसन्नोषधयो नेतुर्नक्तं अस्नेहदीपिकाः । । ४.७५ । ।
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः ।
गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः । । ४.७६ । ।
तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूथ् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं । । ४.७७ । ।
शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् ।
जयोदाहरणं बाह्वोर्गापयां आस किंनरान् । । ४.७८ । ।
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा । । ४.७९ । ।
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियं । । ४.८० । ।
चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः । । ४.८१ । ।
न प्रसेहे स रुद्धार्कं अधारावर्षदुर्दिनं ।
रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीं । । ४.८२ । ।
तं ईशः कामरूपाणां अत्याखण्डलविक्रमं ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः । । ४.८३ । ।
कामरूपेश्वरस्तस्य हेमपीठाधिदेवतां ।
रत्नपुष्पोपहारेण च्छायां आनर्च पादयोः । । ४.८४ । ।
इति जित्वा दिषो जिष्णुर्न्यवर्तत रथोद्धतं ।
रजो विश्रामयन्राज्ञां छत्त्रशून्येषु मौलिषु । । ४.८५ । ।
स विश्वजितं आजह्रे यज्ञं सर्वस्वदक्षिणं ।
आदानं हि विसर्गाय सतं वारिमुचां इव । । ४.८६ । ।
सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने । । ४.८७ । ।
यज्ञान्ते तं अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान् ।
आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः । । ४.८७* । ।
ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यं ।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरं । । ४.८८ । ।
इति कालिदासविरचिते रघुवंशे चतुर्थः सर्गः
टिप्पणियाँ
एक टिप्पणी भेजें