साहित्यशास्त्रस्य सुप्रसिद्धविद्वान् 'कविराज' उपाधिधारी आचार्यविश्वनाथस्य नाम क: न जानाति साहित्यविश्वे । तस्य पितु: नाम चन्द्रशेखर: इति स: स्वयम् आत्मन: साहित्यदर्पणग्रन्थस्य दशमपरिच्छेदे वर्णितवानस्ति ।
''श्रीचन्द्रशेखर महाविचन्द्रसूनु-
श्रीविश्वनाथ कविराजकृतप्रबन्धम् ।।
साहित्यदर्पणममु सुधयोविलोक्य
साहित्यतत्वमखिलं सुखमेव वित्त ।।
अनेन श्लोकेन ज्ञायते यत् आचार्यस्य पिता श्रीचन्द्रशेखर: अपि एक: महाकवि: आसीत् । आचार्यविश्वनाथ: स्वपितु: द्वे रचने अपि उद्धृतवान् अस्ति ।
- पुष्पमाला
- भाषार्णव
आचार्यविश्वनाथस्य पितामह: नाम श्री नारायण: आसीत् । सोपि एक: उत्कृष्ट विद्वान् आसीत् । स: शास्त्रार्थे धर्मदत्त नामकं विद्वांसं पराजितमपि कृतवानासीत् । तस्यपितु: श्रीनारायणस्य एक: कनिष्ट: भ्राता श्री चण्डीदास: आसीत् । एषोपि संस्कृतस्य शीर्षस्थविद्वत्सु लब्धप्रतिष्ठ: आसीत् । अनेन प्रतीयते यत् विद्वत्वं, कवित्वं, ऐश्वर्यादिकं तु विश्वनाथं विरासते प्राप्तमासीत् । अतएव कलिंगराजेन तस्मै कविराज इति उपाधि: प्रदत्तमासीत् ।
कविराजविश्वनाथस्य पितामह उत्कलदेशस्य निवासी आसीत् । स: कलिंगनरेशस्य नरसिंहदेवस्य सन्धिविग्रहिक: (प्रधानमन्त्री) आसीत् । विश्वनाथस्य पुत्र: श्री चन्द्रशेखर: अपि निश्चयेन एव कलिंगराजस्य सभात: सम्बन्धित: आसीत् । एवमेव आचार्यविश्वनाथ: अपि कलिंगराज्येन सम्बन्धित: आसीत् इत्यपि स्पष्टं भवति ।
व्यक्तित्वं - आचार्यविश्वनाथस्य पाण्डित्यं, व्यक्तित्वं सर्वं तस्य रचनासु दृष्यते । स: आत्मन: रचनासु आत्मन: विषये विविधान् विशेषणान् अपि प्रयुक्तवान् अस्ति, येन तस्य व्यक्तित्वं इतोपि स्वच्छं भवति । एतानि विशेषणानि निम्नलिखितानि सन्ति -
- श्रीनारायणचरणारविन्दमधुव्रतम्
- साहित्यार्णवकर्णधार:
- ध्वनिप्रस्थापनपरमाचार्य:
- कविसूक्तिरत्नाकर:
- अष्टादशभाषावारविलासिनीभुजंग:
- सन्धिविग्रहिक:
- आलंकारिकचक्रवती
एतेषां विशेषणानामतिरिक्तमपि तस्य अन्यकृतिषु विविधविशेषणानि प्राप्यन्ते । यथा -
1. संगीतविद्याविद्याधरकलाविद्यामालतीमधुकरविविधविद्याविद्यार्णवकर्णधार: ।
2. नाट्यशास्त्र दीक्षागुरु:
अस्य 'अष्टादशभाषावारविलासिनीभुजंग:' विशेषणम् अस्य 18 भाषाणां भाषाविद: सिद्धयति ।
स्थितिकाल: - आचार्यविश्वनाथ: साहित्यदर्पणस्य चतुर्थे परिच्छेदे दिल्लीसम्राट् अलाउद्दीनस्य विषये निम्नलिखितं लिखितवान् - ''अलाउद्दीननृपतौ न सन्धिर्न च विग्रह:'' ।
दिल्लीसुलतानअलाउद्दीनस्य काल: 1296ई. त: 1316 ई. आसीत् । अतएव आचार्यविश्वनाथस्य काल: तत: परमेव भवेत् । एतदरिक्तं साहित्यदर्पणस्य एका हस्तलिखिता प्रति: उपलब्धा अस्ति यस्य लेखनकाल: 1384 इति उल्लिखिति: अस्ति एतएव आचार्यविश्वनाथस्य स्थितिकाल: 14तमी शताब्दे: मध्यभाग: इति चिन्तयितुं शक्नुम: ।
कविराजविश्वनाथस्य कृतित्वम् -
आचार्यविश्वनाथस्य रचना: अधोलिखिता: सन्ति ।
- राघवविलास: (महाकाव्यम्)
- कुवलयाश्वचरितम् (प्राकृतकाव्यम्)
- चन्द्रकला (नाटिका)
- प्रभावती परिणयम् (नाटकम्)
- प्रशस्तिरत्नावली (16 भाषाणां करम्भक:)
- नरसिंहविजयम् (खण्डकाव्यम्)
- कंसवधम् (काव्यम्)
- साहित्यदर्पणम् (काव्यशास्त्रीयग्रन्थ:)
- काव्यप्रकाशदर्पणम् (काव्यप्रकाश-टीका)
एतेषां ग्रन्थाणामतिरिक्तं महाकवे: साहित्यदर्पणग्रन्थस्य षष्ठमे परिच्छेदे गद्यकाव्यस्य विवेचने वृत्तिगन्धिउत्कलिकाप्राय एवं च चूर्णकगद्यानाम् उदाहरणं प्राप्यते । अनेन एतत् सिद्धं भवति यत् विश्वनाथेन कश्चित् गद्यकाव्यमपि लिखितम् अस्ति, यत् सम्प्रति अनुपलभ्यते । सम्प्रति एतस्य रचनासु केवलं साहित्यदर्पणम् एवं च काव्यप्रकाशदर्पणम् एव उपलभ्यते ।
इति ......
2 टिप्पणियाँ
साधु कार्यम् ! प्रशंसां अर्हति !अनन्त कुलकर्णी ,पुणे ,महाराष्ट्र .
जवाब देंहटाएंBahut khushi hui sanskrit ka blog dekhkar!
जवाब देंहटाएं