अर्थालंकार: - काव्‍यलिंग अलंकार:

 

वाक्‍यार्थ: यत्र हेतुरूप: भवति तत्र काव्‍यलिंग अलंकार: भवति ।

हेतोर्वाक्‍यपदार्थत्‍वे काव्‍यलिंगं निगद्यते ।

अर्थात् यत्र वाक्‍यार्थ: एव कस्‍‍यचित् हेतु: भवति तत्र काव्‍यलिंगालंकार: भवति ।

  • प्रस्‍तुतलक्षणे लिंग इत्‍युक्‍ते हेतु: इति अस्ति ।  काव्‍यलिंगस्‍यार्थ: - काव्‍याभिमतं लिंगं काव्‍यलिंगम् ।
  • काव्‍यलिंगस्‍य द्वौ भेदौ स्‍त: ।
    1. वाक्‍यार्थहेतुक
    2. पदार्थहेतुक

उदाहरणम् -

त्‍वद्वाजिराजिनिर्धूतधूलोपटलपंकिलाम् ।

न धत्‍ते शिरसा गंगां भूरिभारभिया हर: ।।

प्रस्‍तुतोदाहरणे प्रथमवाक्‍यस्‍यार्थ: एव द्वितीयवाक्‍ये जायमानानां क्रियाणां हेतुरिति अस्ति अत: काव्‍यलिंगालंकार: अस्ति अत्र ।

इति ......

टिप्पणियाँ