जालपृष्ठम् - जालसूचिका जालपृष्ठस्यैव एक: प्रकार: । जालपृष्ठं किमिति - जालजगति अस्माकं वाग्व्यवहारादिकं, व्यापारादिकं, सूचना:, वार्ता: इत्यादिकं प्रतिपादितुं यत् पृष्ठं निर्माप्यते तत् जालपृष्ठम् । जालपृष्ठं निर्मापितुं प्रतिवर्षे एकं निर्धारितमूल्यं सेवाप्रदातायै प्रदानीयं भवति । एवं वक्तुं शक्यमस्ति यत् यथा वयं भाटकेन आवासं स्वीकृत्य एकं आपणं चालयाम:, अस्माकं व्यवसाय: च वर्धयाम: ; तद्वेव भवति खलु जालपृष्ठम् । सम्प्रति लक्षाधिकानि जालपृष्ठानि सन्ति बहुषु भाषासु जालजगति येषां विषया: अपि भिन्ना: सन्ति ।
जालसूचिका - जालसूचिका जालपृष्ठस्य एव एक: लघुप्रकार: अस्ति । लघु इत्यनेन शब्देन आशय: अस्ति सामर्थ्यसीमाया: । एकं जालपृष्ठं यत् कार्यं सम्यकतया सम्पादयितुं शक्नोति तत् सर्वं जालसूचिकामाध्यमेन कर्तुं शक्यं न भवति । किन्तु तथापि जालसूचिका एकस्य लघुव्यापारस्य, भाषाव्यापारस्य, संदेशव्यापारस्य, एवं च आत्मसंतोषायकृतानां कार्याणां कृते उपयुक्तमेव भवति ।
अस्य निर्माणं पूर्णतया नि:शुल्कं भवति । जालविपणीं बहव: सेवाप्रदातार: सन्ति ये ब्लागनिर्माणसुविधा दीयन्ते । यथा - वर्डप्रेस, ब्लागर, जूमला, जागरणजंक्शन इत्यादय: ।
एतेषु सुविधादायकेषु ब्लागर इति गूगलअन्वेषणयन्त्रस्य सेवा अस्ति अत: प्रसिद्धमस्ति । अस्य प्रयोग: अपि तावत् सरलमस्ति यत् जना: न्यूनप्रयासेन एव जालसूचिका निर्माप्य लेखनं प्रारम्भं कर्तुं शक्नुवन्ति । व्लागर इत्यस्य काश्चन इतोपि विशेषता: सन्ति या: क्रमश: वदिष्याम: ।
0 टिप्पणियाँ