वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ॥
विशोकवन्तः करणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तु मन्त्रयन्तः
कथमिव श्रियमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥
देहादि भावं परिमार्जयन्तः
आत्मानमात्मन्यवलोकयन्तः
नान्तं न मध्यं न बहिस्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥
स्वानन्दभावे परितुष्टिमन्तः
संशान्त सर्वेन्द्रिय तुष्टिमन्तः
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥
पंचाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥
श्रीमच्छङ्करभगवत्पादपूज्यकृतं यतिपंचक स्तोत्रं संपुर्णम्
अभिवाद्य
ऐवियन्
0 टिप्पणियाँ