जालसूचिकानिर्माणात् पूर्वं भवतां पार्श्वे एक: ईसंकेत: भवेत् एव । एष: संकेत: कश्मिश्चिदपि ईसंकेतप्रदातृषु भवितुमर्हति यथा - रेडिफमेल, इण्डियामेल, याहूमेल, हाटमेल इत्यादि । किन्तु यदि भवताम् ईसंकेत: जीमेलसेवाया: अस्ति चेत् इतोपि सुविधा: प्राप्तुं शक्यं भवति अत: यदि ब्लागरसेवाप्रदातार: सेवा प्रयुज्ज्यते चेत् जीमेल ईसंकेतस्य निर्माणं क्रियताम् । येषां पार्श्वे जीमेल ईसंकेत: अस्ति ते तु स्वतन्त्रतया ब्लागर जालसूचिका निर्मापितुं शक्यन्ते । येषां पार्श्वे जीमेल संकेत: नास्ति तेषां कृते अत्र जीमेल ईसंकेत: कथं निर्मापनीय: इति उद्घाट्यते ।
1. प्रदत्तचित्रे यत्र दर्शितमस्ति (संकेतमंजूषायां) जीमेल.काम इति टंकयतु । अनन्तरं प्रवेशपिंजं (इण्टर बटन) नोदयतु ।
2. द्वितीयचित्रवदेव नूतन: पृष्ठ: उद्घटिष्यति । अस्मिन् पृष्ठे उपरि भागे सर्वतो दक्षिणत: क्रियेट ए न्यू एकाउंट (नूतनखातानिर्माणं करोतु) इति लिखितं भवति । तस्योपरि नोदनं करणीयम् ।
यदि कस्यचित् पार्श्वे पूर्वमेव जीमेलसंकेत: भवेत् चेत् स: आत्मन: संकेतम् उद्घाटयेत् । येषां पार्श्वे संकेत: नास्ति ते दत्तविधै: निर्मापयेयु: ।
3. नूतने पृष्ठे एकम् आवेदनपत्रं प्राप्यते । अस्मिन् क्रमश: केचन बिन्दव: पूरणीया: भवेयु: । अत्र सर्वप्रथमं तु आत्मन: पूर्णनाम इति प्रदेयं भवति ।
द्वितीयविकल्पे संकेत: पूरणीय: भवति । एष: संकेत: भवत: नामात् एव भवेत् । प्रायश: वयं यं संकेतं वांछाम: तत् न प्राप्यते चेत् संकेते एव किमपि संयोज्य निर्मापनीयं भवति ।
तृतीये विकल्पे भवत: गुप्तशब्द: भवति । गुप्तशब्दरूपेण प्रारम्भे तु स: शब्द: भवेत् य: स्मरणे भवेत् ।
4. सूचनाप्रदानस्य अनन्तरं चित्रस्थापनं कुर्यात् । यदि चित्रं स्थापितुं न इच्छन्ति चेत् साक्षात् अग्रे गच्छन्तु किन्तु यदि चित्रं स्थापनीयं चेत् अधोक्ते स्थाने नोदयेत् ।
5. संगणकात् चित्रचयनं करणीयम् । चित्रचयनाय उक्तस्थाने नोदनीयं, तेन संगणकस्य संवलकम् (फोल्डर) उद्घटति । संवलकात् इच्छितचित्रचयनम् करणीयम् ।
6. सम्प्रति भवत: ईसंकेत: निर्मापित: । आत्मन: संकेत: संरक्षयतु । ईसंकेतं संरक्ष्य पुन: अग्रे आत्मन: संकेतपृष्ठे गच्छन्तु ।
सम्प्रति यान् प्रति अपि ईपत्रं प्रेषणीयं, येषामपि ईसंकेतं स्वीकरणीयं; तत् सर्वम् अनेन ईसंकेतमाध्यमेन कर्तुं शक्यन्ते ।
एवं विधा भवन्त: आत्मन: ईसंकेतं निर्मापितुं शक्नुवन्ति । एष: लेख: भवतां कृते लाभदायक: भवेत् इति आशासे । यदि काचिदपि काठिन्यं वर्तते चेत् कृपया सूचयन्तु । वयं भवताम् ईसंकेतस्य निर्माणमपि निर्मूल्येन कर्तुं शक्नुम: ।
संस्कृतजगत्
0 टिप्पणियाँ