स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु ।
वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान् । । ६.१ । ।
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण ।
काकुत्स्थं आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशं । । ६.२ । ।
वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गं इवारुरोह । । ६.३ । ।
परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवद्(?) आसनं सः ।
भूयिष्ठं आसीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन । । ६.४ । ।
तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पय्ॐउचां पङ्क्तिषु विद्युतेव । । ६.५ । ।
तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणां इव पारिजातः । । ६.६ । ।
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः । । ६.७ । ।
अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके ।
संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः । । ६.८ । ।
पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे । । ६.९ । ।
मनुष्यवाह्यं चतुरश्रयानं अध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा क्ëप्तविवाहवेषा । । ६.१० । ।
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलं आसनेषु । । ६.११ । ।
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः । । ६.१२ । ।
कश्चित्कराभ्यां उपगूढनालं आलोलपत्त्राभिहतद्विरेफं ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार । । ६.१३ । ।
विस्रस्तं अंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नं ।
प्रालम्बं उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः । । ६.१४ । ।
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं । । ६.१५ । ।
निवेश्य वामं भुजं आसनार्धे ततसंनिवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूथ् । । ६.१६ । ।
विलासिनीविभ्रमदन्तपत्त्रं आपाण्डु रं केतकबर्हं अन्यः ।
प्रियाइतम्बोचितसंनिवेशैर्विपाटयां आस युवा नखाग्रैः । । ६.१७ । ।
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयां आस सलीलं अक्षान् । । ६.१८ । ।
कश्चिद्यथाभागं अवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रं एकं व्यापारयां आस करं किरीटे । । ६.१९ । ।
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीं अवदत्सुनन्दा । । ६.२० । ।
असौ शरण्यः शरणोन्मुखानां अगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा । । ६.२१ । ।
कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीं आहुरनेन भूमिं ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः । । ६.२२ । ।
क्रियाप्रबन्धादयं अध्वराणां अजस्रं आहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्दुकपोललम्बान्मन्दारशून्यानलकांश्चकार । । ६.२३ । ।
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानां । । ६.२४ । ।
एवं तयोक्ते तं अवेक्ष्य किंचिद्(?) विस्रंसिदूर्वाङ्कमधूकमाला ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनं अभाषमाणा । । ६.२५ । ।
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीं । । ६.२६ । ।
जगाद चैनां अयं अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते । । ६.२७ । ।
अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनां उन्मुच्य सूत्रेण विनैव हाराः । । ६.२८ । ।
निसर्गभिन्नास्पदं एकसंस्थं अस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वं एव कल्याणि तयोस्तृतीया । । ६.२९ । ।
अथाङ्गराजादवतार्य चक्षुर्याह्जन्यां अवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः । । ६.३० । ।
ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयां आस विशेषदृश्यं इन्दुं नवोत्थानं इवेन्दुमत्यै । । ६.३१ । ।
अवन्तिनाथोऽयं उदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रह्मं उष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति । । ६.३२ । ।
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि । । ६.३३ । ।
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् । । ६.३४ । ।
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुं उद्यानपरंपरासु । । ६.३५ । ।
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावं । । ६.३६ । ।
तां अग्रतस्तामरसान्तराभां अनूपराजस्य गुणैरनूनां ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा । । ६.३७ । ।
संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः । । ६.३८ । ।
अकार्यचिन्तासमकालं एव प्रादुर्भवंश्चापधरः पुरस्ताथ् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता । । ६.३९ । ।
ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितं आ प्रसादाथ् । । ६.४० । ।
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृश्टं । । ६.४१ । ।
आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्त्रसारां । । ६.४२ । ।
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीं ।
प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुं अस्ति कामः । । ६.४३ । ।
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः । । ६.४४ । ।
सा शूरसेन्दाधिपतिं सुषेणं उद्दिश्य लोकान्तरगीतकीर्तिं ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी । । ६.४५ । ।
नीपान्वयः पार्थिव एष वज्वा गुणैर्यं आश्रित्य परस्परेण ।
सिद्धाश्रमं शान्तं इवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः । । ६.४६ । ।
यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविशह्यं रिपुमन्दिरेषु । । ६.४७ । ।
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गताऽपि गङ्गोर्मिसंसक्त जलेव भाति । । ६.४८ । ।
त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नं । । ६.४९ । ।
संभाव्य भर्तारं अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि युवनश्रीः । । ६.५० । ।
अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि ।
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु । । ६.५१ । ।
नृपं तं आवर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव । । ६.५२ । ।
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथं ।
आसेदुषीं सादितशत्रुपक्षं बालां अबालेन्दुमुखीं बभाषे । । ६.५३ । ।
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः । । ६.५४ । ।
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानां इव पद्धती द्वे । । ६.५५ । ।
रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्यां ।
विशिष्टरेखौ रिपुविक्रमाग्नेर्निर्वाणमार्गाविव यो बिभर्ति । । ६.५५* । ।
यं आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृष्यवीचिः प्रबोधयत्यर्णव एव सुप्तं । । ६.५६ । ।
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः । । ६.५७ । ।
प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवाथ् । । ६.५८ । ।
अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः ।
आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी । । ६.५८* । ।
अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपं ।
इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्यां । । ६.५९ । ।
पाण्ड्योऽयं अंसार्पितलम्बहारः क्ëप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः । । ६.६० । ।
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः । । ६.६१ । ।
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे । । ६.६२ । ।
अनेन पाणौ विधिवद्(?) गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः । । ६.६३ । ।
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु । । ६.६४ । ।
इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु । । ६.६५ । ।
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः ।
दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुरिवारविन्दे । । ६.६६ । ।
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः । । ६.६७ । ।
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूथ् ।
वामेतरः संशयं अस्य बाहुः केयूरबन्धोच्छवसितैर्नुनोद । । ६.६८ । ।
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारं एत्य वृक्सान्तरं काङ्क्षति षट्पदाली । । ६.६९ । ।
तस्मिन्समावेशितचित्तवृत्तिं इन्दुप्रभां इन्दुमतीं अवेक्ष्य ।
प्रचक्रमे वक्तुं अनुक्रमज्ञा सविस्तरं वाक्यं इदं सुनन्दा । । ६.७० । ।
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूथ् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः । । ६.७१ । ।
महेन्द्रं आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः । । ६.७२ । ।
ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदं अङ्गदेन ।
उपेयुशः स्वां अपि मूर्तिं अग्र्यां अर्धासनं गोत्रभिदोऽधितष्ठौ । । ६.७३ । ।
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः । । ६.७४ । ।
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानां ।
वातोऽपि नासरंसयदंशुकानि को लम्बयेदाहरणाय हस्तं । । ६.७५ । ।
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषां अकरोद्विभूतिं । । ६.७६ । ।
आरूढं अद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टं ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुं इयत्तयालं । । ६.७७ । ।
असौ कुमारस्तं अजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति । । ६.७८ । ।
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वं आत्मनस्तुल्यं अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन । । ६.७९ । ।
ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव । । ६.८० । ।
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुं ।
र्ॐआञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः । । ६.८१ । ।
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे ।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श । । ६.८२ । ।
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।
आसञ्जयां आस यथाप्रदेशं कण्ठे गुणं मूर्तं इवानुरागं । । ६.८३ । ।
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः । । ६.८४ । ।
शशिनं उपगतेयं क्ॐउदी मेघमुक्तं जलनिधिं अनुरूपं ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणां एकवाक्यं विवव्रुः । । ६.८५ । ।
प्रमुदितवरपक्षं एकतस्तत्(?) क्षितिपतिमण्डलं अन्यतो वितानं ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं आसीथ् । । ६.८६ । ।
इति कालिदासविरचिते रघुवंशे षष्ठः सर्गः
टिप्पणियाँ
एक टिप्पणी भेजें