प्रमुखा: ब्राह्मणग्रन्‍था:

प्रायश: सर्वेषां वेदग्रन्‍थानां ब्राह्मणानि सन्ति ।  तेषां संक्षिप्‍तपरिचयम् अधोलिखितमस्ति । ---

ऋग्‍वेदस्‍य ब्राह्मणग्रन्‍था: -

1- ऐतरेयब्राह्मणम् - ऋग्‍वेदस्‍य इदं ब्राह्मणं यज्ञ-प्राख्‍यापनेन सह एव रोचकआख्‍यायिकानां द्वारा कर्तव्‍याकर्तव्‍यानां शिक्षां प्रदादाति ।

अस्मिन् ब्राह्मणग्रन्थे 8 पंचिका: 40 अध्‍याया: एवं च 285 कंडिका: सन्ति ।  एतत् ब्राह्मणं होतृगणात् सम्‍बद्धशस्‍त्रशंसनादिकार्याणां विस्‍तृतविवेचनं प्रस्‍तोति ।  अस्‍य ब्राह्मणस्‍य प्रमुखाख्‍यानं शुन:-शेप आख्‍यानम् अस्ति ।

2- शांखायनब्राह्मणम् - एतदपि ऋग्‍वेदस्‍यैव ब्राह्मणं विद्यते ।  अस्मिन् ब्राह्मणे 30 अध्‍याया: एवं च 226 खण्‍डा: सन्ति ।  एतत् ब्राह्मणं 'कौषीतकि ब्राह्मणम्' इत्‍यपि नाम्‍ना अभिधीयते ।

यजुर्वेदस्‍य ब्राह्मणग्रन्था: -

1 - शतपथब्राह्मणम् - सर्वेषु ब्राह्मणेषु इदं ब्राह्मणं सर्वाधिकं महत्‍वपूर्णं, यज्ञानुष्‍ठानानां सर्वोत्तम: प्रतिपादक:, महत्कायं चास्ति ।  इदं ब्राह्मणं शुक्‍लयजुर्वेदस्‍य काण्‍व, माध्‍यन्दिन उभयो: शाखयो: प्राप्‍यते ।  काण्‍वशतपथब्राह्मणे 17 काण्‍डानि, 104 अध्‍याया:, 435 ब्राह्मणानि एवं च 6806 कण्डिका: सन्ति ।  माध्‍यन्दिनशतपथब्राह्मणे 14 काण्‍डानि, 100 अध्‍याया:, 68 प्रपाठका:, 438 ब्राह्मणानि एवं च 7624 कण्डिका: सन्ति ।

2 - तैत्तिरीयब्राह्मणम् - तैत्तिरीयब्राह्मणम् अद्यावधि पर्यन्‍तं कृष्‍णयजुर्वेदस्‍य शाखासु पूर्णरूपेणउपलब्‍धब्राह्मणग्रन्‍थेषु विद्यते ।  अस्‍य विभाजनं त्रिषु काण्‍डेषु कृतमस्ति ।  तदनुसारम् अस्मिन् 3 काण्‍डानि, 28 प्रपाठका:, 353 अनुवाकाश्‍च सन्ति ।

अस्मिन् ब्राह्मणे आगता: आख्‍यायिका: क्रमश: - भरद्वाज, नचिकेता, प्रह्लाद एवं च अगस्‍त्‍यविषयकानि सन्ति ।  अस्मिन् सृष्‍ट्योत्‍पत्तिविषयकम् अद्भुतवर्णनमपि अस्ति ।

3 - मैत्रायणी - नोपलभ्‍यते सम्‍प्रति

4- कठ - नोपलभ्‍यते सम्‍प्रति

5 - कपिष्‍ठल - नोपलभ्‍यते सम्‍प्रति

सामवेदस्‍य ब्राह्मणग्रन्‍था: -

1 – पंचविंश (ताण्‍ड्य/प्रौढ) ब्राह्मणम् - अस्मिन् सामवेदीयब्राह्मणे अध्‍यायानां संख्‍या 25 अस्ति अत: अस्‍य अपरं नाम पंचविंशब्राह्मणमपि अस्ति ।  सर्वतो दीर्घं सन् महाब्राह्मणम् अपि कथ्‍यते ।  अस्‍य ब्राह्मणस्‍य प्रमुखाख्‍यायिका: क्रमश: - च्‍यवनमुने:, मेधातिथि-वत्‍स आदय: सन्ति ।

2 - षडविंश ब्राह्मणम् - एतत् ब्राह्मणं 6 अध्‍यायेषु विभक्‍तमस्ति ।  ताण्‍ड्यब्राह्मणस्‍य एव निरन्‍तरस्‍वरूपं परिगण्‍य एतत् तस्‍यैव 26तम: अध्‍याय: मन्‍यते ।

3 - सामविधान ब्राह्मणम् - अस्मिन् ब्राह्मणे 3 अध्याया: सन्ति ।  अस्मिन् वर्णितस्‍य एकस्‍या: कथाया: अनुसारे ब्रह्मणा सृष्‍ट्यारम्‍भे सर्वेषाम् आहाररूपेण सामस्‍य कल्‍पना कृता ।  मानवजीवनस्‍य विविधपक्षेभ्‍य: युक्‍ताकाक्षानां पूर्त्यर्थं कृताणां विविधानां कर्माणां वर्णनमेव अस्‍य ब्राह्मणस्‍य प्रतिपाद्यम् ।

4 - आर्षेय ब्राह्मणम् - मन्‍त्रद्रष्‍टाऋषीणां नामै: सामानां नामानि वदति इदं ब्राह्मणम् ।  एतत् ब्राह्मणं 6 अध्‍यायेषु विभक्‍तमस्ति ।  सामानां नामेभ्‍य: सम्बद्धऋ‍षीणां नामप्रतिपादनम् अस्‍य ब्राह्मणस्‍य प्रतिपाद्यविषय: ।

5- देवताध्‍याय ब्राह्मणम् - इदं ब्राह्मणं चतुर्षु खण्‍डेषु विभक्‍तमस्ति ।  अस्‍य प्रतिपाद्यविषय: सामवेदीय निधनानुसारं सामानां देवानां परिचय: अस्ति ।  'निधन:' पंचभक्तियुक्‍त: सामस्‍य एक: भक्तिविभाग: अस्ति ।

6 - उपनिषद् (मन्‍त्र/छान्‍दोग्‍य) ब्राह्मणम् - अस्मिन् ब्राह्मणे दश प्रपाठका: सन्ति ।  प्रथमप्रपाठकद्वये विवाहादिकर्मणा सम्‍बद्धसाममन्‍त्राणि सन्ति ।  अन्‍या: अष्‍टप्रपाठका: तु उपनिषदरूपेण गण्‍यते ।  अस्मिन्  उपनिषदे सामस्‍य सारतत्‍वकथनम् अस्ति ।

7 - संहितोपनिषद् ब्राह्मणम् - अस्मिन् ब्राह्मणे 5 खण्‍डा: सन्ति ।  अस्मिन् ब्राह्मणे सामसंहिताया: रहस्‍यानि निगदितानि सन्ति ।

8 - वंशब्राह्मणम् - त्रिषु खण्‍डेषु विभक्‍तम् इदं ब्राह्मणं शर्वदत्‍तगार्ग्‍यत: ब्रह्मणपर्यन्‍तं सामवेदस्‍य अध्‍ययनपरम्‍परां वक्ति ।

9 - जैमिनिशाखीय ब्राह्मणानि -

  • जैमिनीयब्राह्मणम् - त्रिषु विभागेषु विभक्‍तमिदं ब्राह्मणम् ।  अस्‍य प्रथमभागे 360 खण्‍डा:, द्वितीये 437, तृतीये च 375 खण्‍डा: सन्ति ।  आहत्‍य सम्‍पूर्णखण्‍डानां संख्‍या 1172 अस्ति ।  अस्‍य ब्राह्मणस्‍यैव उक्तिरस्ति - मोच्‍चैरिति होवाच कर्णिनि वै भूमिरिति - इत्‍युक्‍ते उच्‍चै: मा वद, भित्तिनाम् अपि कर्णं भव‍ति ।
  • जैमिनीयार्षेय ब्राह्मणम् - कौथुमशाखीय आर्षेयब्राह्मणवदेव इदं ब्राह्मणम् ।  विषयवस्‍तु:, अध्‍याया:, खण्‍डा: च तद्वदेव ।
  • जैमिनीयोपनिषद् - जैमिनीयोपनिषद् ब्राह्मणं चतुर्षु अध्‍यायेषु विभक्‍तमस्ति ।  अस्‍य विषयवस्‍तु: प्रायश: आरण्‍यकवदस्ति ।  यागविधीनां विशेषोल्‍लेख: नास्ति ।

अथर्ववेदस्‍य ब्राह्मणग्रन्‍था: -

1 - गोपथब्राह्मणम् - प्रस्‍तुतब्राह्मणम् अथर्ववेदस्‍य पैप्‍पलादशाखात् सम्‍बद्धमस्ति ।  सम्‍प्रति अथर्ववेदस्‍य इदमेकमात्रब्राह्मणमस्ति ।  अस्‍य 'गोपथ' इति नामविषये यद्यपि बहूनि मतानि प्रचलितानि सन्ति किन्‍तु तेषु सर्वाधिकं प्रसिद्धं विश्‍वसनीयं च मतमस्ति - अस्‍य प्रवचनकर्तु: नाम गोपथ इति अस्ति ।

इदं ब्राह्मणं पूर्वगोपथ:, उत्‍तरगोपथ: इति भेदयो: द्विधा अस्ति ।  पूर्वभागे 5 उत्‍तरभागे 6 च प्रपाठका: सन्ति ।  एवं विधा सम्‍पूर्णं 11 प्रपाठका: सन्ति ।  प्रपाठकानां विभाजनं कण्डिकासु अस्ति ।  पूर्वगोपथे 135 एवं च उत्‍तरगोपथे 123 कण्डिका: सन्ति ।  एवं विधा सम्‍पूर्णं 258 कण्डिका: सन्ति ।  अथर्ववेदस्‍य 49तमे परिशिष्‍टे 'चरणव्‍यूहे' कथनमस्ति यत् कस्मिश्चित् समये गोपथ: 100 प्रपाठकेषु विभक्‍त: आसीत् ।

अन्‍यब्राह्मणगन्‍थानां सदृशमेव गोपथब्राह्मणे अपि मुख्‍यरूपेण यज्ञकर्मस्‍य एव प्रतिपादनम् अस्ति ।  पूर्वगोपथे प्रथमाध्‍याये सृष्टिप्रकियानिरूपणमस्ति ।  तदनुसारं स्‍वयम्‍भू-ब्रह्मण: तपं, जलस्‍योत्‍पत्ति:, जले रेतस्‍खलनं, शान्‍तलस्‍य समुद्रे भृगु, अथर्वा, आथर्वण ऋषीणां तथा च अर्थवेद, उँकार, लोक एवं च त्रयी इत्‍येतेषाम् आविर्भाव:  जात: ।  अशान्‍तजलेन वरुण, मृत्‍यु, अंगिरा, अंगिरस ऋषय:, वेद, पंचव्‍याहृतय: तथा च यज्ञस्‍योत्‍पत्तिरभवत् इति वर्णितम् अस्ति ।  तदनन्‍तरं ब्रह्मणा पुष्‍करे ब्रह्मण: सृष्टि:, उँकारस्‍य महत्‍वं, उँकारस्‍य जपफलम्, ओकारविषये 36 प्रश्‍ना: तेषामुत्‍तराणि च, गायत्रीमन्‍त्रस्‍य च विशदव्‍याख्‍या, आच‍मनविधिरित्‍यादि: वर्णितास्ति ।

एवं विधा एव अन्‍येषु प्रपाठकेषु अपि बहुविधिविषया: वर्णिता: सन्ति ।

इति ......

टिप्पणियाँ