हेतु:


कर्मकाण्‍डविधि: सम्यकतया सम्‍पन्‍नो भवेत् एतदर्थं दीयमाना: निर्देशा: हेतु: इति कथ्‍यन्‍ते ।  ब्राह्मणग्रन्‍थे यज्ञीयविधिविधाननिमित्‍तं समुचितकारणस्‍य निर्देश: अपि हेतु: कथ्‍यते ।  
यथा -

अग्निष्‍टोमयागे उद्गाता सदसाभिधाने मण्‍डपे औदुम्‍बरस्‍य शाखाया: उच्‍छ्रयणं करोति ।  अस्‍य विधानस्‍य कारणं निर्दिशन् ताण्‍ड्य-ब्राह्मणं वदति यत्, प्रजापति: देवतायै उूर्ज: विभाजनमकरोत् ।  तेन एव उदुम्‍बरवृक्षस्‍य उत्‍पत्ति: जाता ।  एवं विधा उदुम्‍बरस्‍य देवता प्रजापति: अभवत् ।  उद्गाताऋत्‍विजस्‍य अपि सम्‍बन्‍ध: प्रजापतिना सह एव भवति ।  अत एव उद्गाता उदुम्‍बरशाखाया: उच्‍छ्रयणं प्रथमकर्मणा करोति ।

अनेन हेतुवचनेन यजमाना: अनुष्‍ठानस्‍य कारणेन परिचिता: भवन्ति ।  तेन यजमानेषु श्रद्धाया: वर्धनमपि जायते ।  इति

टिप्पणियाँ