विधि:


यज्ञस्‍य अनुष्‍ठानोपदेश: एव विधिरित्‍यभिधीयते ।  ब्राह्मणग्रन्‍थेषु प्रतिपाद्यविधे: दशप्रकारा भवन्ति ।
हेतुर्निर्वचनं निन्‍दा प्रशंसा संशयो विधि:
परक्रिया पुराकल्‍पो व्‍यवधारणकल्‍पना ।।
उपमानं दशैते तु विधयो ब्राह्मणस्‍य तु ।।
यज्ञसम्‍बन्धिविविधानां विधीनां वर्णनं ब्राह्मणग्रन्‍थेषु प्राप्‍यते ।  यथा - पौर्णमास्‍यां दीक्षितो यजमान आहवनीयगार्हस्‍पत्‍याग्‍नयोर्मध्‍ये पूर्वस्‍यां दिशि उपविश्‍य जलस्‍य स्‍पर्शं कुर्यात् ।  यतो जलं मेध्‍यं भवति, यज्ञाय उपयोगी पदार्थ: भवति इति ।
मिथ्‍यावादी जन: यज्ञाय नोपयोगी भवति, अतएव जलस्‍पर्शेनासौ पापमपहाय मेध्‍यो भवति ।  जलस्‍पर्शेन पवित्रो भूत्‍वा स दीक्षितो भवति, अत एव जलस्‍पर्श करोति ।  यथोक्‍तं शतपथब्राह्मणे - ''अमेध्‍यो वै पुरुषो यदनृतं वदति तेन पूतिरन्‍तरत: ।  मेध्‍यो वै आप: ।  पवित्रं वा आप: ।  पवित्रपूतो व्रतमुपायानीति तस्‍माद् वा अप उपस्‍पृशति'' इति ।

टिप्पणियाँ