सायणाचार्यानुसारं येषां ग्रन्थानां मननं-चिन्तनं ग्रामस्य/नगरस्य कोलाहलपूर्णे वातावरणे सम्भवं नासीत् अत: अरण्यस्य एकान्त, शान्तवातावरणे अध्ययनं कृतं ते ग्रन्था: एव आरण्यकग्रन्था: इति ज्ञायन्ते । एते ग्रन्था: वेदानां रहस्यानाम् उद्घाटनं, प्राणविद्यासदृशगूढविद्याया: दार्शनिकविश्लेषणं च कुर्वन्ति ।
वस्तुत: आरण्यकग्रन्था: ब्राह्मणग्रन्थानां पूरकमेव सन्ति, सहैव उपनिषदानां प्रारम्भिकभाग: च सन्ति । ब्राह्मणग्रन्थेषु जटिलयज्ञप्रक्रिया वर्णिता भवति किन्तु आरण्यकग्रन्थेषु सामान्ययज्ञानां प्रतिपादनं कृतमस्ति । एते यज्ञा: वानप्रस्थिना अपि कर्तुं शक्यं भवन्ति स्म । एवं विधा वयं वक्तुं शक्नुम: यत् मन्त्रब्राह्मणात्मकं वेदस्य यस्मिन् अंशे आध्यात्मितत्वानां मीमांसा, प्राणविद्या तथा च प्रतीकोपासनाया: विषया: वर्णिता: सन्ति; स: अंश: आरण्यक इति नाम्ना अभिधीयते । महाभारतस्य आदिपर्वे कथनमस्ति ---
''नवनीतं यथा दध्नो, मलयाच्चन्दनं यथा ।
आरण्यकं च वेदेभ्य:, औषधिभ्योSमृतं यथा ।।''
विषयवस्तु: - आरण्यकानां मुख्यप्रतिपाद्यविषय: प्राणविद्या एवं च प्रतीकोपासना अस्ति । अस्य महत्वपूर्णं विवेचनं ऐतरेय, तैत्तिरीयं च ब्राह्मणयो: प्राप्यते । ऐतरेयारण्यकस्य निम्निलिखित: अंश: अत्यन्तम् उपादेय: अस्ति - ''प्राणेन सृष्ट्वान्तरिक्षं च वायुश्च । अन्तरिक्षं वा अनुचरन्ति । अन्तरिक्षमनुश्रृण्वन्ति । वायु: अस्मै पुण्यं गन्धमावहति । एवमेतौ प्राणपितरं परिचरतोSन्तरिक्षं च वायुश्च ।'' अनेन कथनेन स्पष्टमस्ति यत् अन्तरिक्ष: वायुश्च द्वौ अपि प्राणरूपीकार्यस्य कारणौ मन्येते । प्राण: पिता अस्ति अन्तरिक्ष: वायुश्च तस्य पुत्रौ स्त: । ऋग्वेदस्य पुरुषसूक्तेपि एवंविधैव कथनं प्राप्यते - ''.......................प्राणाद्वायुरजायत् ।।
एवं विधा वयं पश्याम: यत् आरण्यकेषु तेषां महाध्यात्मिकतत्वानां संकेत: प्राप्यते, यानि उपनिषदेषु पुष्पितानि-पल्लवितानि सन्ति ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें