प्रमुखा: आरण्‍यकग्रन्‍था:

ब्राह्मणग्रन्‍थसदृशमेव सर्वेषां वेदानां पृथक्-पृथक् आरण्‍यकग्रन्‍था: विद्यन्‍ते ।  एतेषां संक्षिप्‍तकथनं निम्‍नवदस्ति ............

ऋग्‍वेदस्‍य आरण्‍यकग्रन्‍था: - ऋग्‍वेदस्‍य द्वौ आरण्‍यकग्रन्‍थौ सम्‍प्रति उपलब्‍धौ स्‍त: ।  एतयो: विवरणम् अधोक्‍तं विद्यते -

1. ऐतरेय आरण्‍यकम् - अस्मिन् ग्रन्‍थे पंच अध्‍याया: सन्ति ।  एतेषां पंचाध्‍यायानां पृथक्-पृथगपि आरण्‍यकसंज्ञा एव अस्ति ।  अस्‍य तृतीयप्रपाठक: (अध्‍याय:) संहितोपनिषद् नाम्‍ना अपि प्रसिद्ध: अस्ति ।

2. शांखायन आरण्‍यकम् - अस्मिन् आरण्‍यके 15 अध्‍याया: सन्ति ।  अस्‍य आरण्‍यकस्‍य तृतीयअध्‍यायत: षष्‍ठअध्‍यायपर्यन्‍तं संहितोपनिषद् नाम्‍ना प्रसिद्धमस्ति ।  अस्‍य पंचदशे अध्‍याये आचार्याणां वंश-परम्‍परा प्रदत्तास्ति ।

 

यजुर्वेदस्‍य आरण्‍यकग्रन्‍था: - यजुर्वेदस्‍य उभयो: शाखयो: (शुक्‍लयजुर्वेद:, कृष्‍णयजुर्वेद:) आरण्‍यकग्रन्‍थानां विवरणं संक्षेपेण अध: दीयते ।

शुक्‍लयजुर्वेदस्‍य आरण्‍यकग्रन्‍था:

1. वृहदारण्‍यकम् - अस्‍य शुक्‍लयजुर्वेदीयआरण्‍यकस्‍य विशेषप्रसिद्धि: उपनिषद्रूपेण अस्ति ।  शुक्‍लयजुर्वेदस्‍य उभयो: शाखयो: (काण्‍व, माध्‍यन्दिनीया) उपरि एतदारण्‍यकं प्राप्‍यते ।

कृष्‍णयजुर्वेदस्‍य आरण्‍यकग्रन्‍था:

2. तैत्तिरीयारण्‍यकम् - कृष्‍णयजुर्वेदस्‍य अस्मिन् आरण्‍यके 10 प्रपाठका: सन्ति ।  एते प्रायश: 'अरण' संज्ञां वहन्ति ।  प्रत्‍येकस्‍य प्रपाठकस्‍य नाम तस्‍य आद्यपदेन कृतमस्ति ये क्रमश: एवं सन्ति - भद्र, सहवै, चिति, युज्‍जते, देव वै, परे, शिक्षा, ब्रह्मविद्या, भृगु तथा च नारायणीय ।  प्रपाठकानाम् अवान्‍तरविभाजनं अनुवाकेषु अस्ति ।  तदनुसार सम्‍पूर्णअनुवाकसंख्‍या 139 अस्ति ।  7 त: 9 प्रपाठकपर्यन्‍तं 'ऐतरेय उपनिषद्' कथ्‍यते ।

3. मैत्रायणीयारण्‍यकम् - नोपलभ्‍यते ।

 

सामवेदस्‍य आरण्‍यकग्रन्‍था: - सामवेदीय आरण्‍यकग्रन्‍थानां संक्षिप्‍तविवरणम् अध: प्रदीयते ।

1. तवलकार (जैमिनीयोपनिषद्) आरण्‍यकम् - इदं 4 अध्‍यायेषु विभक्‍तमस्ति ।  अध्‍यायानां विभाजनम् अनुवाकेषु कृतमस्ति ।  अस्मिन् आरण्‍यके अतिमानवीयशक्‍तीनां वर्णनं प्राप्‍यते ।

2. छान्‍दोग्‍यारण्‍यकम् - अस्‍य परिचय: अज्ञातमस्ति ।

अथर्ववेदस्‍य तु नैकमपि आरण्‍यकग्रन्‍था: प्राप्‍यन्‍ते ।

इति .....

टिप्पणियाँ