प्रश्‍नोपनिषद्

इयमुपनिषद: अथर्ववदीय ब्राह्मणभागस्‍य अन्तर्गतम् आगच्‍छति ।  शंकराचार्यानुसारं - 'मुण्‍डकोपनिषदे उक्‍ततथ्‍यानां विवेचनमेव 'प्रश्‍नोपनिषद्' इति अस्ति ।  - ''मन्‍त्रोक्‍तस्‍यार्थस्‍य विस्‍तरानुवादीदं ब्राह्मणमारभ्‍यते''

प्रश्‍नोपनिषद् सम्‍पूर्ण 6 खण्‍डेषु विभक्‍तमस्ति ।  अस्‍य प्रत्‍येक: खण्‍ड: प्रश्‍ननाम्‍ना एव अभिधीयते ।

आख्‍यानस्‍य संक्षेप: - सुकेशा, सत्‍यकाम, सौर्यायणि, अश्‍वलकुमार, विदर्भदेशीय भार्गव तथा च कबन्‍धी एते षड ऋषय: मिलित्‍वा म‍हर्षिपिप्‍पलादस्‍य समीपं गत्‍वा प्रश्‍नान् अपृच्‍छन् ।

तेषां प्रश्‍नानां समुचितमुत्‍तरं दत्‍वा महर्षि: तान् सन्‍तुष्टिं दत्‍तवान् ।

प्रथमप्रश्‍ने- रयि प्राणयो: द्वारा प्रजापतित: सम्‍पूर्णजगत: उत्‍पत्तिरभवत् इति निरूपितमस्ति ।

द्वितीयप्रश्‍ने- स्‍थूलशरीरस्‍य प्रकाशक: धारक: च प्राणस्‍य वर्णनं कृतम् ।

तृतीयेप्रश्‍ने- प्राणस्‍य उत्‍पत्ति: स्थिति: च बोधितम् ।

चतुर्थप्रश्‍ने- स्‍वप्‍नावस्‍थाया: वर्णनम् ।

पंचमेप्रश्‍ने- ओंकारस्‍य स्‍वरूपवर्णनम् ।

षष्‍ठेप्रश्‍ने- मुक्‍तावस्‍थायां निरूपाधिकब्रह्मं प्राणादि 16 कलानां आरोहपूर्वकप्रत्‍यगात्‍मरूपेण निरूपणमस्ति ।

इति

टिप्पणियाँ