हिमालयः

 

माधवोमाधवौ यत्र संशोभितौ,
यत्र गंगादयः शैशवे शोभिताः ।
देवताः साधवो योगिनः किन्नराः,
सौख्य संप्राप्तये यत्र सिद्धौ रताः ।।1
तापतप्ताः जनाः भावुकाः पीडिताः,
संगतौ यस्य सिद्धिं लभन्ते सदा ।
सैष शक्तेर्पिता भूतले राजते,
भूधराणां वरो भूधरो निश्चलः ।।2
ज्ञान विज्ञान दाता सदा सुस्थिरः,
ध्यान योग प्रदाता गुरुः शंकरः ।
धर्म मूर्तिर् विरक्तश्च रत्नाकरः,
प्रीति युक्त स्वभावो सदा वत्सलः ।।3
संपदः सर्वदा सर्वतः प्रसृताः,
स्वर्ण मेरुश्च यत्रास्ति दिव्याकृतिः ।
यक्ष गंधर्व सिद्धाः तथा दानवाः,
साधनायां रताःतेपि वै निर्जलाः ।।4
मोक्ष मार्गे रताः ते विरक्त्या युताः,
भोग शून्याश्च भक्ताःशुभाः भावुकाः ।
ज्ञान निष्ठाः च हंसोपमाः साधवः,
कर्मयोगावलम्बे रताः योगिनः ।।
तेपि सौहार्द भावेन सिद्धिं गताः5

टिप्पणियाँ