कठोपनिषद्

कृष्‍णयजुर्वेदस्‍य कठशाखायां प्राप्‍यते अयं ग्रन्‍थ: । अयं ग्रन्‍थ: द्वयो: अध्‍यायो: विभ‍क्‍त: अस्ति । अध्‍याययो: अवान्‍तरविभाजनं पुन: वल्‍लीषु कृतमस्ति । प्रत्‍येकस्मिन् अध्‍याये वल्‍लीनां संख्‍या 3 अस्ति । अनेन प्रकारेण अस्मिन् ग्रन्‍थे द्वौ अध्‍यायौ, षड वल्‍लय: च सन्ति ।
अस्‍य उपनिषदस्‍य मुख्‍यप्रतिपाद्यविषय: अग्निचयनविद्या (ब्रह्मविद्या) अस्ति । अस्मिन् एव ग्रन्‍थे प्रसिद्ध 'यम-नचिकेता आख्‍यानम्' प्राप्‍यते ।
आख्‍यानसंक्षेप: - नचिकेताया: पिता 'उद्दालकमुनि:' एकं विश्‍वजितनामकं यज्ञं साधितवान् ।  तस्मिन् यज्ञे आत्‍मन: सर्वं धनं देयं भवति ।  उद्दालकेन तु दानस्‍य कृते केवलं तत् गोधनमेव प्रदत्‍तं यत् जनानां कार्यस्‍य नासीत् ।  गाव: वृद्धा अभवन् ता: दुग्‍धं दातुमपि शक्‍ता: न ।  एतत् सर्वं दृष्‍ट्वा नचिकेता पितु: पार्श्‍वे गत्‍वा अपृच्‍छत् ।  पिता अहमपि भवत: धनमेव, मह्मय कस्‍मै प्रयच्‍छति ।  स: द्विधा, तृधा च अपृच्‍छत् ।  अनेन क्रुध्द: पिता तुभ्‍यं मृत्‍यवे ददामि इति उक्‍तवान् । 
नचिकेता सम्‍प्रति यमस्‍य विषय: आसीत् अत: स: यमस्‍य गृहं प्रति गतवान् ।  तत्र यम: नासीत् अत: स: त्रिदिवसेभ्‍य: द्वारे एव उपाविशत् ।  यमराज: यदा आगत: तदा स: नचिकेताया: अनुनयं कृतवान् ।  पुनश्‍च त्रिदिवसेभ्‍य: त्‍वं मम द्वारे अतिष्‍ठत् अत: त्रीणि वराणि याच इति उक्‍तवान् । 
प्रथम वरेण स: पितु: शान्ति:, द्वितीयवरेण नचिकेताग्नि:, तृतीयवरेण च मृत्‍यो: रहस्‍यमिति याचितवान् ।  यमराज: तस्‍य पात्रताया: परीक्षणं कृत्‍वा तस्‍मै मृत्‍युरहस्‍यविद्या दत्‍तवान् ।  इति  

टिप्पणियाँ