श्रीमच्‍छंकराचार्यविरचितं षट्पदीस्‍तोत्रम्


अविनयमपनय विष्‍णो दमय मन: शमय विषयमृगतृष्‍णाम् ।
भूतदयां विस्‍तारय तारय संसारसागरत: ।।1
दिव्‍यधुनीमकरन्‍दे परिमल‍परिभोगसच्चिदानन्‍दे ।
श्रीपतिपदारविन्‍दे भवभयखेदच्छिदे वन्‍दे ।।2
सत्‍यपि भेदापगमे नाथ तवाहं न मामकीनस्‍त्‍वम् ।
सामुद्रो हि तरंग क्‍वचन समुद्रो न तारंग: ।।3
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्‍टे ।
दृष्‍टे भवति प्रभवति न भवति किं भवतिरस्‍कार: ।।4
मत्‍स्‍यादिभिरवतारैरवतारवतावता सदा वसुधाम् ।
परमेश्‍वर परिपाल्‍यो भवता भवतापभीतो अहम् ।।5
दामोदर गुणमन्दिर सुन्‍दरवदनारविन्‍द गोविन्‍द ।
भवजलधिमथनमन्‍दर परमं दरमपनय त्‍वं मे ।।6
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ।।7
इति श्रीमच्‍छंकराचार्यविरचितं षट्पदीस्‍तोत्रं सम्‍पूर्णम् ।।

टिप्पणियाँ