ओलम्पिकदीपं स्‍वीकृत्‍य धाविष्‍यति महानायक: अमिताभबच्‍च्‍न: ।


   बालीबुड महानायक: अमिताभबच्‍चन: अद्य ओलम्पिकसमारोहस्‍य प्रारम्‍भात् एकदिवसपूर्वं ओलम्पिकदीपं स्‍वीकृत्य धावनं करिष्‍यति ।  स: लंदनस्‍य साउथवार्क इति स्‍थाने ओलंपिकदीपं स्‍वीकृत्‍य धावनं करिष्‍यति ।  एषा सूचना तेन स्‍वयमेव आत्‍मन: टिवटर पृष्‍ठे प्रदत्‍तवान् ।  प्रधानमन्‍त्री मनमोहनसिंह: एवं च चलचित्रनिर्माता करणजौहरस्‍य अनन्‍तरं अन्‍तरराष्‍ट्रीय ओलंपि संघेन वालीवुडमहानायक: अमिताभबच्‍चन: आहूत: अस्ति ।  अमिताभबच्‍चन: एतां घटनां आत्‍मन: कृते गौरवप्रदं मन्‍यते ।
    ओलम्पिकदीपं 70 दिवसस्‍य अटनानन्‍तरं 27जुलाई इति दिवसे लन्‍दनस्‍य ओलम्पिकक्रीडाक्षेत्रे प्राप्‍स्‍यति ।   मशालयात्रा ब्रिटेनक्षेत्रे कार्नवालक्षेत्रात् प्रारब्‍धमासीत् । ओलम्पिकदीपं क्रीडाक्षेत्रे प्राप्ते सति ओलम्पिकक्रीडाया: उद्घाटनं भविष्‍यति इति । 


टिप्पणियाँ