अन्‍ना पुनरनश्‍नमारभत्



      देहल्‍या: जन्‍तर-मन्‍तरस्‍थाने अन्‍ना अनश्‍नान्‍दोलनं पुनरारभत् ।  अद्य प्रात:काले अन्‍ना अनश्‍नम् आरब्‍धवान् ।  विदितं भवेत् यत् अन्नावर्ग: पूर्वमेव चतुर्दिवसेभ्‍य: अनश्‍नं करोति ।  िअद्य अन्‍ना अपि अनश्‍नम् प्रारभत् ।

गतचतुर्दिवसेषु तावत् सम्‍मर्द: नासीत् येन जना: वदन्‍त: आसन् यत् अन्‍नान्दोलनस्‍य अधिकप्रभाव: नास्ति ।  किन्‍तु अद्य यदैव अन्‍ना आन्‍दोलनम् आरब्‍धवान् तदा आरभ्‍य जन्‍तर-मन्‍तर स्‍थाने जनानां सम्‍मर्द्ध: एकत्रित: ।
प्रायेण जना: आगच्‍छन्‍त: सन्ति, गच्‍छन्‍त: च सन्ति ।  तत्र स्‍थायीरूपेण केचन एव तिष्‍ठन्ति किन्‍तु जनानां सम्‍मर्द्ध: निरन्‍तरं वर्धते एव ।  अन्‍नान्‍दोलनस्‍य प्रभाव: मुंबईनगरे अपि अस्ति ।  तत्रापि जनानां सम्‍मर्द: एकत्रितं भूत्‍वा अन्‍नान्‍दोलनस्‍य समर्थनं करोति ।

टिप्पणियाँ