अतितीव्रगत्‍या आत्‍मन: ग्रथनानाम् (Files) अनुकृतिं (Copy) कुर्वन्‍तु



      प्रायश: वयम् आत्‍मन: ग्रथनानि एकसंवलकत: (folder) अन्‍यसंवलके अनुकुर्म: (copy) ।  िबहुधा आत्‍मन: स्‍मृतिपत्रके (memory card) अपि संगणकत: ग्रथनानि पूरयाम: ।  किन्‍तु अस्मिन् कार्ये समय: अधिकं लगति ।  यतोहि अस्‍माकं संगणस्‍य अनुकृतिगति: प्रायेण तस्‍य प्रक्रमकस्‍य (processor) उपरि निर्धारितं भवति अत: यथा अस्‍माकं प्रक्रमकं भवति तथैव तद्गत्‍या एव अस्‍माकं संगणकस्‍य ग्रथनानाम् अनुकृतिगति: अपि भवति ।  चेत् यदि अस्‍माभि: कदाचित् 1जी.बी. उत इतोपि अधिकानि वस्‍तूनि हस्‍ता‍न्‍‍त‍रणीयानि (file transfer) सन्ति चेत् अस्‍यां प्रक्रियायां अर्धघंटात: अपि अधिकं समय: लगति ।  अनेन वयं श्रान्‍त: भवाम: । 
       सम्‍प्रति अस्‍य समाधानमपि प्राप्‍यते ।  जालजगति प्रायश: बहूनि मृदुवसनानि (software) सन्ति अनुकृतिप्रक्रियां वर्द्धितुं, तेषु अद्य भवतां पुरत: मयापि एकं मृदुवसनं प्रस्‍तूयते ।  अस्‍य मृदुवसनस्‍य नाम अस्ति टेराकापी इति ।  यथा अस्‍य नाम अस्ति तथैव अस्‍य गुणमपि अस्ति ।  केवलं एतस्‍य स्‍थापनां कृत्‍वा साक्षात् अस्‍य प्रभावं द्रष्‍टुं शक्‍यमस्ति ।  अस्‍तु तर्हि अध: प्रदत्‍तश्रृंखलात: नोदनं कृत्‍वा प्राप्‍नुवन्‍तु, लाभं च स्‍वीकुर्वन्‍तु । 


संस्‍कृतजगत् 

टिप्पणियाँ