ईशावास्‍योपनिषद्


ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत्
तेन त्यक्तेन भुंजीथा मा गृधः कस्य स्विद् धनम् ।।1

अन्वयः - जगत्याम् यत् किंच जगत्, इदम् सर्वम् ईशा वास्यम् तेन त्यक्तेन भुंजीथाः मा गृधः कस्य स्वित् धनम् ।

सरलार्थः - ब्रह्माण्डे यत् किमपि जड़-चेतनरूपी जगत् अस्ति, तत् सर्वम् ईश्‍वरेण एव अभिव्याप्तम् अस्ति ।  अतः तेन ईश्‍वरेण सह (तं मनसि निधाय) संसाधनानां त्यागपूर्वकम् उपयोगः कर्तव्यः ।  भोग्यपदार्थेषु आसक्तिः मा भवेत् यतोहि धन-धान्यानि, भोग्यपदार्थाः, संसाधनानि वा कस्य भूत्वा तिष्ठन्ति इति ।  इत्‍युक्‍ते केषांचिदपि न भवन्ति । 
इति 


टिप्पणियाँ