बडीदेवकालीमन्दिरस्‍य प्रतिमा: चोरिता: (फैजाबाद)

फैजाबाद, शुक्रवासरे फैजाबादनगरस्‍य ऐतिहासिकशक्तिपीठे देवकाली मन्दिरे स्‍थापिता: भगवत्‍य: तिस्र: प्रतिमा: चोरिता: ।  एता: प्रतिमा: सहस्रवर्षेभ्‍य: अपि प्राचीना: आसन् इति ।  प्रतिमाभि: सह एव त्रिकिलोमि‍तस्‍य छत्रम्, मुकुट: सिंहासनंचापि चोरितम् ।  घटना शुक्रवासरे रात्रौ घटिता ।  शनिवासरे प्रात:काले यदा मुख्‍यपण्डित: भगवत्य: द्वारोद्घाटनाय गत: तदा स: एतां घटनां ज्ञात्‍वा अन्‍यान् जनान् अपि सूचितवान् ।  शीघ्रमेव एषा सूचना स्‍थानीयेषु अपि गता साक्षात् एव जनसम्मर्द: एकत्रित: सन् रोष: प्रकटित: ।
रक्षकप्रशानेन उक्‍तमस्ति यत् शीघ्रातिशीघ्रमेव एता: प्रतिमा: तस्‍या: चौरा: च प्राप्‍स्‍यन्‍ते ।  फैजाबादनगरे दिनद्वयात् महान् सम्‍मर्द: अस्ति तेन पुलिसप्रशासनेन कर्फ्यू इति कृतमस्ति ।  अद्य सायं पर्यन्‍तं चौरानां कापि सूचना न प्रा‍प्‍तासीत् । 
भगवत्‍य: एतत् मन्दिरं न केवलं हिन्‍दूजनानाम् अपितु मुगलानामपि आस्‍थाकेन्‍द्रमासीत् अतएव स्‍थानीयहिन्‍दुभि: सह एव मुगला: अपि मार्गे उपविश्य रोषं प्रक‍टयन्‍त: सन्ति ।  सम्‍पूर्णे शहरे सुरक्षाव्‍यवस्‍था वर्धिता अस्ति । 

टिप्पणियाँ