महत्वम् - छन्दशास्त्रं वैदिकसाहित्यस्य पंचमांगमस्ति । उक्तमप्यस्ति । -
छन्द: पादौ तु वेदस्य हस्तौ कल्पो थ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात् साड्.मधीत्यैव ब्रह्मलोके महीयते ।।
आचार्यकात्यायन: छन्दशास्त्रस्य महत्ववर्णनं कुर्वन् वदति - यो ह वा अविदितर्षेयच्छन्दो -दैवत-ब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्ते वा पात्यते या पापीयान् भवति । (सर्वानुक्रमणी 1/1)
वेदेषु अपि गायत्री, उष्णिक्, अनुष्टुप्, वृहती, पंक्ति, त्रिष्टुप्, एवं च जगती इत्यादय: छन्दा: प्रयुक्ता: सन्ति ।
व्युत्पत्ति: -
यथा आचार्यपाणिनिना व्याकरणशास्त्रस्य सूत्राणि, शौनकादिभि: प्रातिशाख्यानां सूत्राणि, वात्स्यायनेन च कामशास्त्रस्य सूत्राणि लिखितानि तथैव महर्षिपिंगल: छन्दशास्त्रस्य सूत्राणि विलिखितवान् । एतदर्थमेव छन्द शास्त्रस्य अपरं नाम पिड्.लशास्त्रमपि अस्ति ।
आचार्यभरतेन उक्तम् -
छन्दहीनो न शब्दो स्ति, न छन्द: शब्दवर्जितम् । (नाट्यशास्त्रम् 14/45)
महर्षिकात्यायनेन अपि तस्यैव समर्थनं कृतम् -
छन्दोभूतमिदं सर्वं वाड्.मयं स्याद् विजानत:
नाच्छन्दसि न चापृष्टे शब्दश्चरति कश्चन ।। (ऋक् यजुष् परिशिष्टम्)
लौकिके साहित्ये सर्वप्रथम: छन्द: महर्षिवाल्मीकिना प्रयुक्तम् । क्रौंचयुगलस्य वियोगं दृष्ट्वा तस्य मुखात् साक्षात् निर्गतम् -
मा निषाद् प्रतिष्ठां त्वमागम शाश्वती समा:
यत्क्रौंचमिथुनादेकम् अवधी: काममोहितम् ।।
एष: श्लोक: लौकिकसंस्कृतसाहित्यस्य सर्वप्रथम: श्लोक: (छन्द:) अभवत् । अतएव अस्य नाम अपि श्लोक: (अनुष्टुप्) इति अभवत् ।
छन्दशब्दस्य व्युत्पत्तिं कुर्वन् निरुक्ते आचार्ययास्क: अवदत् -
छन्दान्सि छादनात् । (निरुक्तं 1/3)
इत्युक्ते मनोभावान् य: आच्छन्नं करोति स: छन्द: ।
एका अन्या व्युत्पत्ति: अपि एवमेव वदति आचार्यस्य समर्थने -
छादयन्ति ह वा एनं पापात् कर्मण:
अपरा व्युत्पत्तिरपि एतयो: समर्थनं करोति
चन्दयति आह्लादयति इति छन्द:
इत्युक्ते पाठकान् य: आह्लादयति स: छन्द: ।
एवं विधा वक्तुं शक्यमस्ति यत् छन्दशब्देन वैदिकलौकिकशास्त्रयो: प्राप्तछन्दानाम् अवगमनं भवति । छन्दस्य परिचयं द्विधा क्रियते । मात्रागणनाधारेण वर्णगणनाधारेण च । मात्रागणनाधारेण कृतं वर्गीकरणं मात्रिकम् उच्यते, यत: वर्णगणनानुसारं कृतं वर्गीकरणं वर्णिकम् इति उच्यते । एवं विधा छन्दस्य प्रारम्भिकभेद: द्विधा अस्ति ।
1- मात्रिकम् (वृत्त) - अस्मिन् अक्षराणां गणना क्रियते ।
2- वर्णिकम् (जाति) - अस्मिन् मात्रा: गण्यन्ते ।
अमरकोषस्य अनुसारं छन्दस् शब्दस्य चत्वार: अर्था: भवन्ति - 1. पद्यम्, 2. अभिलाषा, 3. वेद, 4. स्वच्छन्दता । प्रायेण छन्दशब्दस्य 'पद्य' अर्थ: लोके अतिप्रचलित: अस्ति ।
पद्य शब्दस्य व्युत्पत्ति: एवम् अस्ति -
''पदम् चरणम् अर्हतीति पद्यम् ।
अर्थात् यत् चरणेषु विभक्तमस्ति तत् पद्यम् ।
-->
बहुसम्यक्
जवाब देंहटाएंNice...
जवाब देंहटाएं