नाटकम्

नाटकम्
अवस्थानुकृतिर्नाट्यम् - अवस्थायाः अनुकरणं नाटकमिति कथ्यते ।  यत्र काव्ये निबद्धै: उत वर्णितैः धीरोदात्तादि चतुर्भिः नायकैः आंगिकवाचिकआहार्यसात्विकअभिनयद्वारा अवस्थानुकरणं क्रियते तत् नाटकमिति कथ्यते ।

रूपं दृश्यतयोच्यते - इदं नाटकमेव रूपमपि कथ्यते ।  रंगमंचे नाटकस्य अभिनयकारणात् एव इदं रूपमपि कथ्यते ।  अस्माकं चक्षुरिन्द्रियस्य विषयं रूपमिति, तस्यैव विषयः सन् नाटकमपि रूपम् इति कथ्यते ।

रूपकं तत्‍समारोपात् - नाटकमेव रूपकम् अपि कथ्‍यते ।  यथा रूपकालंकारे उपमानस्‍य उपमेये आरोप: क्रियते तथैव नाटके अपि रामादिइतिहासपुरुषाणाम् आरोप: नटादिषु क्रियते, अतएव नाटकस्‍य अपरं नाम रूपकम्  अपि अस्ति ।  इति 

एवं विधा नाटकस्‍य त्रीणि अभिधानानि नाटकं, रूपं, रूपकं च सन्ति ।  इति 

टिप्पणियाँ