तदेजति तन्‍नैजति - ईशावास्‍योपनिषद्

तदेजति तन्‍नैजति तद् दूरे तद्वन्तिके ।
तदन्‍तरस्‍य सर्वस्‍य तदु सर्वस्‍यास्‍य बाह्यत: ।।5

अन्‍वय: - तत् एजति, तत् न एजति ।  तत् दूरे, तत् उ अन्तिके तत् अस्‍य सर्वस्‍य अन्‍त:, तत् अस्‍य सर्वस्‍य उ बाह्यत: ।

सरलार्थ: - स: (परमेश्‍वर:) चलति (गतिं करोति), स: न चलति, स: दूरादपि दूरमस्ति, स: निकटादपि सन्निकटमस्ति ।  स: अस्‍य जगत: अन्‍त: सर्वत्र व्‍याप्‍तमस्ति (परिपूर्णमस्ति) , एवं च स: सम्‍पूर्णं विश्‍वं बहिष्‍ठादपि आवृतवानस्ति । 

टिप्पणियाँ