अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।।4
अन्वय: - अनेजत् एकम् मनस: जवीय: । पूर्वम् अर्षत् । एनत् देवा: न आप्नुवन् । तत् अन्यान् धावत: तिष्ठत् अत्येति । तस्मिन् मातरिश्वा अप: दधाति ।
सरलार्थ: - स: (परमेश्वर:) अचलम्, एकं, मनत: अपि तीव्रगतियुक्तमस्ति । स: सर्वेषाम् आदि:, ज्ञानस्वरूपं सर्वद्रष्टा चास्ति । एतं परमेश्वरम् इन्द्रादया: देवा: अपि प्राप्तुं न शक्तवन्त: । स: एकस्मिन् स्थाने भूत्वा (स्थित्वा) एव तीव्रगत्या धावत: जनानाम् अतिक्रमणं करोति । तेन एव वायु: जलवृष्टिरादिक्रिया: सम्पादयितुं शक्नोति ।
इति
0 टिप्पणियाँ