यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।6
अन्वय: - तु य: सर्वाणि भूतानि आत्मनि एव अनुपश्यति, च सर्वभूतेषु आत्मानम् तत: न विजुगुप्सते ।
सरलार्थ: - किन्तु य: मनुष्य: सर्वान् प्राणीन् परमात्मनि एव निरन्तरं पश्यति । सर्वेषु जीवेषु च तं परमात्मनं पश्यति स: केनचिदपि सह घृणां न करोति ।
0 टिप्पणियाँ