अष्टाध्यायी संस्कृतव्याकरणग्रन्थेषु अन्यतम: अस्ति । भगवता पाणिनिना कृत एष: ग्रन्थ: लौकिकसंस्कृतव्याकरणस्य तु प्राणभूत: एव । सम्प्रति प्राप्त व्याकरणग्रन्थेषु सर्वतो प्राचीन: ग्रन्थ: अस्ति एष: । भगवान् पाणिनि: भगवत: श्रीशिवस्य आराधनां सम्पादितवान् तेन हि प्रसन्न: शिव: तस्य कृते चतुर्दशवारं ढक्कावादनं कृतवान् ।
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपंचवारम् ।
उद्धर्तुकाम: सनकादिसिद्धानेतद्विमर्षे शिवसूत्रजालम् ।।
ढक्कावादनस्य ध्वनिना एव भगवान् पाणिनि: माहेश्वरसूत्रमिति रचितवान् । अस्य सूत्रस्य उपरि एव सम्पूर्णं व्याकरणम् आधृतमस्ति । एतानि चतुर्दशसूत्राणि -
अइउण् ऋलृक् एओङ् ऐऔच् हयवरट् लण् ञमङ्णनम् झभञ् घढधष् जबगडदश् खफछटतचटतव् कपय् शषसर् हल्
सन्ति । इति
एकस्य शब्दस्य अन्तिमः अक्षरः अनुबन्धः इति कथ्यते । "आदिरन्त्यॆन सहॆता" इत्यनॆन सूत्रॆण प्रत्याहार-शब्दस्य बॊध: जायतॆ । चतुर्दश सूत्रै: ४२ + १ प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारॆणैव् सम्पूर्णम् व्याकरणम् रचितम् ।
अस्मिन् ग्रन्थे 8 अध्याया: सन्ति, प्रत्येकेषु अध्यायेषु 4-4 पादा: सन्ति । एवं विधा सम्पूर्णपादसंख्या 32 अस्ति । सम्पूर्ण सूत्रसंख्या 3996 इति अस्ति ।
पाणिनिकृत अष्टाध्यायीग्रन्थे महर्षि: कात्यायन: वार्तिकं लिखितवान्, पुन: च महर्षिपतंजलिना महाभाष्यम् इति लिखित्वा लौकिकसंस्कृतव्याकरणस्य सम्पूर्णतां सम्पादितम् । इति
खफछठथचटतव्
जवाब देंहटाएं