ध्येयं वदन्ति शिवमेव हि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात्तवमेव शरणं मम दीनबन्धो ।। (शंखपाणे इति पाठान्तरम्)
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं बलं वा
सन्दृश्यते न किल कोऽपि सहायको मे
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
नोपासिता मदमपास्य मया महान्त-
स्तीर्थानि चास्तिकधिया न हि सेवितानि
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति
संजीवनं च परहस्तगतं सदैव
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
पूर्वं कृतानि दुरितानि मया तु यानि
स्मृत्वाखिलानि हृदयं परिकम्पते मे
ख्याता च ते पतितपावनता तु यस्मात्
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
दुःखं जराजननजं विविधाश्च रोगाः
काकश्वसूकरजनिर्निरये च पातः
ते विसमृतेः फलमिदं विततं हि लोके
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम्
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
वेदेषु धर्मवचनेषु तथागमेषु
रामायणेऽपि च पुराणकदम्बके वा
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्तवमेव शरणं मम दीनबन्धो ।।
-->
टिप्पणियाँ
एक टिप्पणी भेजें