प्रियबान्धवा: भवन्त: जानन्ति एव संस्कृतजगत् समये समये संस्कृतस्य
प्रसाराय विभिन्नकार्याणि साधयति । संस्कृतविषये जनानां रुचि: कथं भवेत् एतदेव
अस्माकं चिन्तनं भवति खलु । सम्प्रति तस्मिन् एव क्रमेण अस्माभि: एका नूतनी
संस्कृतलेखन प्रतियोगिता इति आयोज्यते । अस्यां प्रतियोगितायां भागं ग्रहीतुं
केचन नियमा: सन्ति । प्रतियोगिताया: सम्पूर्णविवरणम् अध: दीयते ।
संस्कृतजगत् संस्कृतनिबन्धलेखन प्रतियोगिता -
- प्रतियोगितायां केपि भागं गृहीतुं शक्नुवन्ति संस्कृतज्ञा: ।
- जनानां समर्द्ध: निवारयितुं प्रतियोगितायां प्रवेशशुल्कं 50 रुप्यकाणि इति स्थापितम् अस्ति ।
- लेखानां भाषा सरला, शुद्धा च भवेत् ।
- प्रदत्तविषयेषु एकमेव लेखं स्वीकृत्स्य तस्योपरि सम्यक् निबन्ध लेखनीय: ।
- प्रतियोगितायां भागं स्वीकुर्वन्त: सर्वेषां जनानां कृते ईप्रमाणपत्रस्य व्यवस्था भविष्यति ।
- विजितलेखा: संस्कृतजगत् ईपत्रिकाया: अग्रिमे संस्करणे प्रकाशयिष्यते ।
- स्थानत्रयं विजेतृणां भविष्यति ।
- प्रथमस्थानस्य कृते 5000 रुप्यकाणि, द्वितीयस्थानस्य कृते 3000 तृतीयस्य कृते च 1000 रुप्यकाणि इति दास्यते ईप्रमाणपत्रेण सहैव ।
- लेखानां शुद्धिपरीक्षणं संस्कृतजगत: अधिकारिण: (वैयाकरणा:) करिष्यन्ति । तेषामेव निर्णयम् अन्तिमं सर्वमान्यं च भविष्यति ।
- विजितबान्धवा: माननीय श्रीविवेकानन्दवर्येण उक्तधनस्य देयपत्रम् (चेक) प्राप्स्यन्ति । अत: कृपया आत्मन: तन्नाम एव देयमस्ति येन नाम्ना भवतां वित्तकोशखातासंख्या भवेत् । येन भवन्त: अतिप्रयत्नेन विना एव धनं प्राप्तुं शक्नुयु: ।
- सर्वेषां विवादानां निस्तारणं लखनउन्यायालये एव भविष्यति ।
मित्राणि
संस्कृतजगत् संस्कृतनिबन्धलेखनप्रतियोगिता अतिशीघ्रमेव प्रारभ्यते । अस्य आवेदनपत्रं शीघ्रमेव प्रकाशयिष्यते । तदावेदनेन सह भवन्त: 50 रुप्यकात्मकं (डिमांड ड्राफ्ट) अपि प्रेषयेयु: । आवेदनशुल्कम् आनलाइन अपि कर्तुं शक्यमस्ति । एतेषां सम्पूर्णविवरणं शीघ्रमेव प्रकाशयिष्यते ।
तावत् प्रतीक्षां कुर्वन्तु अभ्यासं कुर्वन्त: एव ।
धन्यवादा:
संस्कृतजगत्
-->
1 टिप्पणियाँ
bahut hi sarthak prastuti,jo bhi samajh me aaya accha laga
जवाब देंहटाएं