कपिलमुनिः - सांख्यशास्‍त्रस्‍य प्रणेता

सांख्यकारिका
श्‍वेताश्‍वतरोपनिषदि ‘सांख्य-कपिलशब्दाभ्यां’ प्रथमवारं प्रयोगः प्राप्यते ।  व्यक्ताव्यक्तज्ञ इत्यस्यापि अत्रैव प्राथम्यं प्राप्यते ।
कपिलमुनिः
सांख्यपरम्परायाः अधिष्‍ठाता महर्षिकपिलः एवास्ति इति प्रायः सर्वैः मन्यते ।  भारते, भागवते च अस्य विरुद्धप्रसंगः सन् केचन् कपिलं काल्पनिकमपि मन्यन्ते ।  महाभारते एव अस्य द्विधा वर्णनं प्राप्यते ।  एकेन तु एष: कपिलः ब्रह्मणः पुत्रः -
सनकश्‍च सनन्दश्‍च तृतीयश्‍च सनातनः
कपिलश्‍चासुरिश्‍चैव वोढुः पंचशिखस्तथा ।।
सप्तैते ब्रह्मणः पुत्राः ---------- महाभारतम्/शान्तिपर्वम्
द्वितीयेन तु अग्न्यावतारः सिद्ध्यते इति -
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा ।
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः --- महाभारतम्/शान्तिपर्वम्
भागवतानुसारं कपिलः नारायणस्यैव पंचमः अवतारः -
पंचमे कपिलो नाम सिद्धेश: कालविलुप्तम्
प्रोवाचासुरये सांख्यं तत्वग्रामविनिर्णयम् ।।  भागवतम् 1/131
भास्कराचार्यादयः ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे’ मन्त्रानुसारेण कपिलपदात् हिरण्यगर्भ इति आशयं स्वीकुर्वन्ति ।  ‘यो ब्रह्माणं विदधाति पूर्वम्’ इत्यादिमन्त्रेषु सैव कपिलः पूर्वं उत्पन्नं भूत्वा ब्रह्मणमपि ज्ञानमददात् इति उक्तमस्ति ।
वाचस्पतिनापि कपिलं ‘हिरण्यगर्भ’ इति उक्तम् ।
एतैः विरोधिवाक्यैः पाश्‍चात्यप्राच्यविद्वान्सः कपिलः नास्ति खल्वैतिहासिकः पुरुष: इति मन्यन्ते किन्तु बहुत्र कपिलस्य नाम प्राप्ते सति तस्यैतिहासिकत्वं स्वयमेव प्रतिपादितम् भवति ।
कपिलस्य द्विधा रचना प्राप्यते ।
1- तत्वसमासः - कर्दमदेवहूतिपुत्रः विष्‍णोरवतारः कपिलः अस्य रचयिता ।
2- सांख्यप्रवचनसूत्रम् - अपरेण अग्न्यवातारकपिलेन रचितः ग्रन्थः ।
-->

टिप्पणियाँ