आचार्य आसुरि: - सांख्‍यकारिका

आसुरि:
विविधेषु ग्रन्‍थेषु आचार्य आसुरि: भगवत: कपिलस्‍य शिष्‍य: आसीत् इति ज्ञापितमस्ति ।  तस्‍य एकोपि कृति: सम्‍प्रति न उपलभ्‍यते ।  महाभारते (शान्तिपर्वम्) तस्‍य उद्धरणम् अपि प्राप्‍यते ।  महर्षि आसुरि: महात्‍मा कपिलस्‍य शिष्‍य: आसीत् इति एतस्मिन् विषये अधिका: विद्वान्‍स: एकमता: सन्ति किन्‍तु प्रमाणाभावे बहु किमपि सम्‍यकतया वक्‍तुं न सम्‍भवन्ति ।  केचन मन्‍यन्‍ते यत् आसुरि: पंचशिखाचार्यस्‍य गुरु: आसीत् ।  अस्‍य विषये अधिकविवरणं न प्राप्‍यते ।
-->

टिप्पणियाँ