सम्‍प्रति पुन: ज्ञानावंटनं प्रारम्‍भं कुर्म: ।

मित्राणि
दिवसा: अतीता: ।  अस्‍माभि: एकमपि लेखं न प्रकाशितं ।  कारणं सम्‍भवत: भवन्‍त: सर्वे जानन्ति एव ।  संस्‍कृतजगत: संरक्षकमहोदय: आदरणीय: श्री अनिरुद्धमुनि पाण्‍डेयवर्य: गतमासे 12 दिनांके एकस्यां दुर्घटनायां व्रणित: ।  तस्‍य चिकित्‍साकार्याय वयं एकमासपर्यन्‍तं सहाराचिकित्‍सालये (लखनउमध्‍ये) एव आस्‍म: ।  सम्‍प्रति तस्‍य स्‍वास्‍थ्‍यं किंचित सम्‍यक् जातमस्ति चेत् अस्‍माकमपि उत्‍साहवर्धनं जातं लेखान् प्रकाशितुम् ।
सम्‍प्रति भवन्‍त: पुन: अस्‍माकं ज्ञानवर्धकलेखा: समये समये प्राप्‍स्‍यन्ति ।  अग्रिमलेखानां कृते अस्‍माकं विषय: प्रायेण तकनीकि: भविष्‍यति ।  तस्मिन् अपि एचटीएमएल संगणकभाषा इति प्रमुखतया प्रकाशयिष्‍याम: ।  अस्‍तु तर्हि अग्रिम लेखस्‍य कृते प्रतीक्षां कुर्वन्‍तु ।

नमस्‍कार:

संस्‍कृतजगत् 
-->

टिप्पणियाँ

एक टिप्पणी भेजें