नोटपैड/टेक्‍स्‍ट एडिट द्वारा एचटीएमएल लेखनम् ।


   एचटीएमएल लेखनाय निम्‍नलिखितानां व्‍यावसायिकमृदुवसनानां प्रयोगं कर्तुं शक्‍यमस्ति ।

  • एडोब ड्रीमवीवर 
  • माइक्रोसाफ्ट एक्‍सप्रेशन वेब 
  • कॉफीकप एचटीएमएल एडिटर

एतेषु एचटीएमएल पठितुं नोटपैड इत्‍यस्‍य प्रयोग: सुखद:, सर्वोपयुक्‍तं च अस्ति ।

नोटपैड प्रारम्‍भं कर्तुं एवं कुर्वन्‍तु 
स्‍टार्ट 
    आल प्रोग्राम्‍स 
           एसेसरीज 
                  नोटपैड
नोटपैड मृदुवसने स्‍व एचटीएमएल कोड टंकयतु ।
स्‍व एचटीएमएल रक्षयतु 
एचटीएमएल ग्रथन(फाइल/डाक्‍यूमेण्‍ट) रक्षणाय सेव ऐज विकल्‍पचयनं करोतु ।  नामस्‍य अनन्‍तरं .htm अथवा .html  लिखन्‍तु ।  सम्‍प्रति रक्षयतु । 

स्‍व एचटीएमएल ग्रथनं कथं जालचालके (ब्राउजर) चालयाम
       स्‍व जालचालकं प्रारम्‍भं कुर्वन्‍तु एवं च फाइल विकल्‍पे गत्‍वा ओपन विकल्‍पचयनं कुर्वन्‍तु ।  सम्‍प्रति सामान्‍यतया यत्र ग्रथनं रक्षितं तत: चयनं कुर्वन्‍तु ।
      अन्‍यविधया अपि चालयितुं शक्‍यमस्ति ।  यत्र ग्रथनं रक्षितं तत्र साक्षात् गत्‍वा ग्रथने द्विवारं नोदनीयं ।  ग्रथनं साक्षात् जालचालके उद्घटिष्‍यति  ।  इति


संस्‍कृतजगत् 
-->

टिप्पणियाँ