एचटीएमएल टैग्स एवं च एलीमेण्‍ट्स ।


     मित्राणि 
एचटीएमएल इत्‍यस्‍य अस्मिन् पाठ्यक्रमे वयं एचटीएमएल टैग्स एवं च एलीमेण्‍ट्स इत्‍ययो: विषये पठिष्‍याम: ।  अत्र एकमवधातुम् एतदस्ति यत् अत्र प्राय: एचटीएमएल भाषाया: प्रचलितशब्‍दा: आंग्‍ले एव दीयन्‍ते येन जना: सम्यकतया अवगन्‍तु शक्‍नुयु: ।  यदि वयं तेषां शब्‍दानां संस्‍कृतानुवादं कुर्म: चेत् भवतां पठने महासमस्‍या: आगमिष्‍यन्ति ।

एचटीएमएल टैग्‍स 
एचटीएमएल मार्कअप टैग्‍स प्राय: एचटीएमएल टैग्‍स इति अपि अभिधीयन्‍ते ।

  • एचटीएमएल टैग्‍स < > कोष्‍ठकयो: आबद्धानि पिंजाक्षराणि (keywords) भवन्ति । यथा - <html>
  • एचटीएमएल टैग्‍स प्रायेण युगलरूपेण (pairs) प्रयुज्‍ज्‍यन्‍ते यथा <b> एवं च </b>
  • प्रथम टैग प्रारम्‍भ टैग (start tag) अपरं च समाप्ति टैग (end tag) इति उच्‍यते । 
  • समाप्ति टैग अपि प्रारम्‍भ टैग वदेव लिख्‍यते केवलं तस्मिन् एकं तिर्यक रेखा (forward slash) प्रारम्‍भे योजितं भवति । 
  • एतौ द्वौ अपि टैग क्रमश: उद्घाटक टैग (opening tags), पिधायक टैग (closing tags) च उच्‍येते ।
यथा - 
<tagname>content</tagname>


एचटीएमएल एलीमेण्‍ट

एचटीएमएल टैग्‍स एवं च एचटीएमएल एलीमेण्‍ट्स प्राय: एकस्‍य एव वस्‍तो: परिचये प्रयुज्‍ज्‍येते ।  किन्‍तु सम्‍यकतया वदाम: चेत् प्रारम्‍भ टैगत: start tag समाप्ति टैग end tag पर्यन्‍तं द्वयो: टैग मध्‍ये यत्किमपि अस्ति द्वौ टैग अपि स्‍वीकृत्‍य तौ एचटीएमएल एलीमेण्‍ट उच्‍यते ।


था - 
<p>This is a paragraph.</p>

प्रारम्‍भत: अन्‍तपर्यन्‍तं सम्‍पूर्णं एचटीएमएल एलीमेण्‍ट इति कथ्‍यते । केवलं कोष्‍ठकस्‍थ वर्णा: एचटीएमएल टैग इति कथ्‍यन्‍ते ।

संस्‍कृतजगत्  

टिप्पणियाँ