किं नाम कारकम्?


   किं नाम कारकम्? "क्रियान्वयि" कारकमिति तस्य लक्षणम्।क्रियायाः अन्वयः=सम्बन्धः यस्य अस्ति तत्
कारकम् इति उच्यते।यथा---
१. पाचकः पचति। अत्र "पाचकः" इति पदं "पचति" इति पाकक्रियायां अन्वेति=सम्बन्धितः अस्ति। अतः "पाचकः" इति
    कर्ता कारकं भवति। इदं कर्तृकारकम्। सदा प्रथमाविभक्तौ एव भवति।
२.गां स्पृशति। अत्र गौः स्पर्शन क्रियायां अन्वेति=सम्बन्धितः अस्ति।अतः "गौः" कारकम्। इदं पदं द्वितीयाविभक्तौ अस्ति।
   अतः कर्मकारकं भवति। कर्म पदं सदा द्वितीयाविभक्तौ एव भवति।
३.खड्गेन छेदयति।अत्र "छेदयति" क्रिया भवति।खड्गस्य छेदनक्रियायां सम्बन्धः अस्ति। अतः "खड्ग" पदं कारकम्।इदं
   खड्गपदं तृतीयाविभक्तौ अस्ति। अतः इदं तृतीयाकारकमिति,छेदनाय खड्गः साधनमिति कारणेन करणकारकमिति च
      उच्यते।करणं नाम साधनम्।
४.बालाय फलं ददाति।अत्र बालः दानक्रियायां अन्वेति=सम्बन्धितः अस्ति।अतः बालः कारकं भवति।बाल इति पदं
   चतुर्थीविभक्तौ अस्ति।अतः चतुर्थीकारकमिति सम्प्रदानकारकमिति च उच्यते।
५.वृक्षात् पतति बालः।अत्र पतति इति क्रियया वृक्षात् इत्यस्य सम्बन्धः अस्ति।"कस्मात् पतति?" इति प्रश्ने कृते
 वृक्षात्--इति समाधानं भवति।अतः "वृक्षात्"पदं "पतति"इति क्रियायां अन्वेति।"वृक्षात्"पदं पञ्चमी विभक्तौ अस्ति।अतः
  इदं पंचमी कारकम्।इदं अपादानकारकम्--अपि भवति।
६.वृक्षे पक्षी अस्ति। अत्र वृक्षे इति पदं अस्ति इति क्रियायां अन्वेति=सम्बन्धितः अस्ति।"कुत्र अस्ति?" इति प्रश्ने कृते
   "वृक्षे" इति समाधानं भवति।इदं पदं सप्तमी विभक्तौ अस्ति।अतः सप्तमीकारकम्--इति अधिकरण कारकम्--इति नाम
    भवति।अत्र "पक्षी" अपि कर्ता इति कारणेन कर्तृकारकम्--भवति।
    एवं कारकाणि षट्---कर्तृकारकम्--कर्मकारकम्--करणकारकम्--सम्प्रदानकारकम्--अपादानकारकम्--अधिकरणकारकम्।
महोदयाः,
दण्डवत् प्रणम्य।
Here in the above sentences I have explained about the "Kaarakaas" with examples.

In a sentence when the subject is related to the verb it is called कर्तृकारकम् in Sanskrit.
--------------------------------object---------------------------------------------कर्मकारकम्--------------.
--------------------------------instrument--------------------------------------- करणकारकम्------------.
-------------------when any thing given to a person-----------------------सम्प्रदानकारकम्-------
----------------------------------------comes from any thing------------------अपादानकारकम्---------.
---------------------------------------exists on any-where---------------------अधिकरणकारकम्-------.
These Six have relationships with the verb in the sentences.

Yours,with regards,
I.V.Narasimhacharya.
<narasimhacharya_iragavarapu@yahoo.com>
-->

टिप्पणियाँ