वह्वृच्प्रातिशाख्ये वेदशब्दस्यार्थ: - 'विद्यन्ते धर्मादय: पुरुषार्थ: यैस्ते वेदा:' इति प्रदत्त: अस्ति । सायणाचार्य: स्वस्य ऋग्वेदभाष्यभूमिकायां वेदस्यार्थं - 'अपौरुषेयवाक्यं वेद:' इति कृतवान् । तत्रैव स: पुन: उक्तवान् यत् 'इष्ट्प्राप्त्यनिष्ट परिहारयोरलौकिकं साधनं यो वेदयति स वेद' । अस्य प्रमाणरूपेण श्लोकमपि दत्तम्
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते
एवं विदन्ति वेदेन तस्मात् वेदस्य वेदता ।।
वेदपदेन तु संहिता, ब्राह्मण, आरण्यकम्, उपनिषद् चेति चतुर्णां ग्रन्थानां बोध: भवति ।संहिता - छन्दोबद्धमन्त्रयुक्ता वेदविभाग: ।
ब्राह्मण - वेदस्य व्याख्याभाग:, गद्यात्मक:, यागादिवर्णनपरक: च ।
आरण्यकम् - मन्त्रव्याख्या द्वौपि प्राप्यते अस्मिन्, गाथारूप:, वानप्रस्थीय: ग्रन्थ: ।
उपनिषद् - तत्तत्संहितागत-ब्रह्मज्ञानादिविषयाणां वर्णनरूपेण संकलनम्, वेदस्य अन्तिम: विभाग: ।
एते विभागा: वेदेषु उपलभ्यन्ते । इति
-->
अस्माकं मतिः भौतिकतायाः जाले एव पतिता अस्ति । संस्कृतस्य ज्ञाता भूत्वा एव अहम् इदानीं ऋषीणां वास्तविकं स्वरूपं बोधन् अस्मि । यदि एषु लघुषु लेखेषु इयतः प्रभावः तर्हि कियतः च वास्तविकेषु ग्रन्थेषु ?
जवाब देंहटाएं