संहिता-ब्राह्मण-आरण्यक-उपनिषद् इति वेदस्य चतुर्विभागा: सन्ति । एतेषु चतुर्षु विभागेषु छन्दोबद्धा मन्त्ररूपो वैदिकदेवतास्तुतिपरको वैदिकमहर्षिभि: साक्षात्कृतो मुख्यविभाग: संहिताशब्देन अभिधीयते । यथा- ऋक्संहिता, यजु:संहिता, सामसंहिता, अथर्वसंहिता च । ऋक्संहितायां स्तुतिपरकमन्त्राणां, यजु:संहितायां याजकीयमन्त्राणां, सामसंहितायां गायनसम्बन्धिमन्त्राणाम् अथर्वसंहितायां विविधविघ्नविनाशक अभिचारिकमन्त्राणां च संग्रह: विद्यते ।
-->
0 टिप्पणियाँ