मित्राणि
भवताम् आदेशानुसारेण संस्कृतजगति सम्पगति यूजीसीनेट परीक्षाया: कृते सज्जाकार्यक्रमरूपेण कक्ष्यानां प्रारम्भ: कृयते । बहूनि मित्राणि अस्मान् प्रेरितवन्त: एवं कर्तुं येन विद्यार्थिनामपि लाभ: भवेत् । अतएव अद्य आरभ्य यूजीसीनेट परीक्षाया: संस्कृतविषयस्य लेखा: अत्र प्रकाशयिष्यते ।
यूजीसी पात्रतापरीक्षायां त्रीणि प्रश्नपत्राणि भवन्ति । यस्मिन् प्रथम: तु सामान्यज्ञानजन्य: भवति । अन्यौ द्वौ विषयगतौ भवत: । अत्र भवन्त: केवलं संस्कृतविषयस्य एव लेखान् प्राप्ष्यन्ति । अत्र लेखस्य वृत्ति: व्याख्यात्मकं भविष्यति । येन सर्वान् विषयान् सम्यक् रूपेण स्थापितुं शक्यम् भवेत् ।
पात्रतापरीक्षा 2013 इत्यस्य आवेदनं सम्प्रति आगतमस्ति । ये जना: आवेदनं कर्तुम् इच्छन्ति ते
यूजीसीनेटजालपृष्ठे गत्वा आवेदनं कर्तुं शक्नुवन्ति । यूजीसीनेट परीक्षाया: विभिन्नविषयानां
विषयसूची (सेलबस) प्राप्तुम् अत्र नोदयन्तु ।
संस्कृतविषयस्य विषयसूची इत: प्राप्तुं शक्यमस्ति । अस्तु तर्हि अद्य आरभ्य इच्छुकजना: यूजीसीपात्रतापरीक्षाकक्ष्याया: लाभं स्वीकुर्वन्तु संस्कृतजगता ।
भवदीय:
विवेकानन्द:
(आनन्द पाण्डेय:)
-->
0 टिप्पणियाँ