संहिता-ब्राह्मण-आरण्यक-उपनिषद् इति वेदस्य चतुर्विभागा: सन्ति । आरण्यकग्रन्था: ते गूढग्रन्था: सन्ति येषामध्ययनं ग्रामात् बहिं एकान्तस्थाने भवति स्म । सायणाचार्यानुसारं -येषामाध्यात्मिकग्रन्थानाम् अध्ययनं मननं चितनं वा च ग्राम/नगरस्य कोलाहलपूर्णे वातावरणे सम्भवं नासीत् तदर्थं तेषामध्ययनपरम्परा अरण्ये एव विकसिता, वेदेषु निहितानामनेकानां रहस्यानामुद्घाटनं यस्मिन् ग्रन्थे कृतम्, तथा च यै: प्राणविद्याया: दार्शनिकविवेचनम् अभवत् ते एव आरण्यकग्रन्था: कथ्यन्ते ।
आरण्यकग्रन्था: ब्राह्मणानामेव पूरकग्रन्था एवं सहैव एते उपनिषदग्रन्थानां प्रारम्भिकविभागा: अपि सन्ति । ब्राह्मणग्रन्थेषु यज्ञानां जटिलविधानं प्रदत्तमस्ति किन्तु आरण्यकग्रन्थे सरलोपाया: वर्णिता: सन्ति । एवं विधा वयं वक्तुं शक्नुम: यत् मन्त्रब्राह्मणात्मक: स: वेदविभाग: यस्मिन् आध्यात्मिकतत्वानां मीमांसा, प्राणविद्या प्रतीकोपासनाया: च विषय: वर्णित: स: अंश: आरण्यकम् इति नाम्ना ज्ञायते ।
महाभारतस्य आदिपर्वे कथनमस्ति -
ऋग्वेदसंहिता - ऐतरेय, शांखायन
यजुर्वेदसंहिता - वृहदारण्यक (शुक्लयजुर्वेदस्य द्वयो: विभागयो:), तैत्तिरीय, मैत्रायणी (कृष्णयजुर्वेदस्य) ।
सामवेदसंहिता - तवलकार (जैमिनीयोपनिषद्), छान्दोग्य ।
अथर्ववेदसंहिता - अथर्ववेदे सम्प्रति एकमपि आरण्यकं न प्राप्यते ।
-->

नवनीतं यथा दध्नो, मलयाच्चन्दनं यथा ।
आरण्यकं च वेदेभ्य:, औषधिभ्यो मृतं यथा ।।
प्रमुखारण्यकग्रन्था: निम्नोक्ता: सन्ति ।ऋग्वेदसंहिता - ऐतरेय, शांखायन
यजुर्वेदसंहिता - वृहदारण्यक (शुक्लयजुर्वेदस्य द्वयो: विभागयो:), तैत्तिरीय, मैत्रायणी (कृष्णयजुर्वेदस्य) ।
सामवेदसंहिता - तवलकार (जैमिनीयोपनिषद्), छान्दोग्य ।
अथर्ववेदसंहिता - अथर्ववेदे सम्प्रति एकमपि आरण्यकं न प्राप्यते ।
-->
नवनीतं यथा दध्नो, मलयाच्चन्दनं यथा ।
जवाब देंहटाएंआरण्यकं च वेदेभ्य:, औषधिभ्यो मृतं यथा ।।
...अति सुन्दरम ...