उपनिषद् ।

   संहिता-ब्राह्मण-आरण्‍यक-उपनिषद् इति वेदस्‍य चतुर्विभागा: सन्ति ।  वेदरूपीवृक्षस्‍य यदि ब्राह्मणग्रन्‍था: शाखा: सन्ति चेत् आरण्‍यकग्रन्‍था: तासां शाखानां पुष्‍पाणि सन्ति । एवं च उपनिषदग्रन्‍था: तेषां पुष्‍पाणां सुगन्धि: सन्ति । 
   तात्‍पर्यमस्ति यत् प्राचीनकाले ऋषय: यान् बीजान् आरण्‍यकेषु वपितवन्‍त:, ते एव उपनिषत्‍सु पुष्पिता: पल्‍लविता: अभवन् ।  वेदानाम् अन्तिम: भाग: सन् एता: वेदान्‍त नाम्‍नापि अभिधीयन्‍ते ।
   शंकराचार्यदृष्‍ट्या उपनिषद: 'ब्रह्मविद्या' इति सन्ति ।  उपनिषद् शब्‍दस्‍योत्‍पत्ति: उप, नि च उपसर्गयो: पूर्वकं सदलृ धातुना अभवत् ।  अत्र सदलृ धातो: प्रयोग: 1-विशरण, 2-गति: एवं च 3-अवसादनम् एतेषु त्रिषु अर्थेषु भवति ।  एवं विधा उपनिषदस्‍याभिप्राय: - अविद्याया: विशरणम्, ब्रह्मविद्याया: प्राप्ति: तथा च सांसारिकदु:खानां शिथिलीकरणमस्ति ।  यद्यपि उपनिषदस्‍याभिप्राय: ब्रह्मविद्यया अस्ति किन्‍तु गौणरूपेण ब्रह्मविद्याया: प्रतिपादकग्रन्‍था: अपि उपनिषद् कथ्‍यन्‍ते ।
   मुख्‍योपनिषदानां संख्‍या निम्‍नोक्‍ता अस्ति -
ऋग्‍वेदसंहिता - ऐतरेयोपनिषद्, कौषीतकि उपनिषद्, बाष्‍कलोपनिषद् ।
यजुर्वेदसंहिता - ईशावास्‍योपनिषद्, वृहदारण्‍यकोपनिषद्, कठोपनिषद्, मैत्रायण्युपनिषद्, तैत्तिरीयोपनिषद्, श्‍वेताश्‍वतरोपनिषद् ।
सामवेदसंहिता - छान्‍दोग्‍योपनिषद्, केनोपनिषद् ।
अथर्ववेदसंहिता - प्रश्‍नोपनिषद्, मुण्‍डकोपनिषद्, माण्‍डूक्योपनिषद् ।

-->

टिप्पणियाँ