मानवा: हस्‍तेन भोजनं किमर्थं कुर्वन्ति ।

-->
प्रिय विद्वत्सुहृदः,
सादरम्प्रणम्य । इदमत्रावधार्यताम् । सृष्टौ ग्राम्यारण्यपशुषु सर्वेषु मानवाः गजाः मर्कटा एव केवलं हस्तेन आहारं गृह्णन्ति।
अत्र कारणं वेदवाङ्मये दृश्यते।
श्रुतिः॥" यत्त्रि रुपाग्ंशुग्ं हस्तेन विगृह्णाति,तस्मा त्त्रयः पशूवाग्ंहस्तादानाः
      पुरुषो हस्ती मर्कटः।"    (कृ.य.सं.६.कां,४.प्र,५.अनु)
(तात्पर्यम्)यज्ञे चतुर्थदिवसे उषःकाले "उपांशुग्रह"नाम्नि सोमपात्रे अध्वर्युः स्वेन अञ्जलिना त्रिवारं सोमरसं गृह्णाति।
 अतः सृष्टौ ग्राम्यारण्यपशुषु मानवाः गजाः मर्कटा इति त्रय एव आहारं हस्तेन स्वीकुर्वन्तीति शिष्टाः पशवः मुखेनैव
 आहारं स्वीकुर्वन्तीति च वेदवाङ्मयं कथयति।
 उपांशुपात्रे त्रिवारं सोमरसं गृह्णीयादिति श्रौतसूत्रमप्येवं बोधयति------
     श्रौ.सूत्रम्। "अथ प्रतिप्रस्थातोपाग्ंशुपात्रं धारय न्नपातानामुपरि द्वावग्ंशू अन्तर्दधाति।
              तस्मि न्नभिषुतमध्वर्युरञ्जलिना सग्ंसिंचति।वाचस्पतये पवस्व वाजिन्निति।
              एवं विहितो द्वितीय स्तृतीयश्च।"       (आ.श्रौ.सू.)
(तात्पर्यम्)"प्रतिप्रस्थाता" इति नाम्नः कस्यचन ऋत्विजः हस्तस्थितात् "उपांशुपात्र"नाम्नः सोमपात्रात् अध्वर्युः
 सोमरसं स्वेन अञ्जलिना त्रिवारं गृह्णीयात्।एवमञ्जलिना त्रिवारं ग्रहणेन सृष्टौ मानव,हस्ति,मर्कटाः त्रयः हस्तेन
 आहारं गृह्णन्तीति उपरि श्रौतसूत्रं बोधयति।
 एतादृशविषयनिर्णयाः केवलं श्रुतिमात्रसाध्याः।अस्मादृशामूहितुमपि न शक्यते।एतावता किमत्र विशेषेण ज्ञातव्यमिति चेत्
 सृष्टेः यज्ञस्य च मध्ये कार्यकारणसम्बन्धः कश्चिदतिसन्निहितोऽस्तीति ज्ञायते।
 अभिवाद्य,
 ऐवियन्।

टिप्पणियाँ