लट् लकारस्य प्रयोग: ।

   निरन्‍तरजायमाना क्रिया लट् लकारेण विधीयते । यथा - वह खेलता है, खेल रहा है, पढता है, पढ रहा है आदिवाक्‍यानाम् अनुवाद: ''क्रीडति, पठति'' इति क्रियते ।  इत्‍युक्‍ते वर्तमाने जायमानस्‍या: क्रियाया: प्रयोग: सर्वदा लट् लकारे क्रियते ।  लट् लकारस्‍य अन्‍यत्रापि प्रयोग: प्राप्‍यते ।  स: प्रयोग: अग्रलिखित: अस्ति ।

प्रारब्‍धोSपरिसमाप्‍तश्‍च काल: वर्तमानकाल:
   वस्‍तो: स्‍वभाव: उत सार्वकालिकसत्‍यस्य कृते लट् लकारस्‍य प्रयोग: क्रियते ।  यथा -
   चिरं पर्वतास्तिष्‍ठन्ति, नद्यश्‍च प्रवहन्ति ।  
   सत्‍यवादिन: प्रतिज्ञां वितथां न हि कुर्वन्ति ।

वर्तमानसामीप्‍ये वर्तमानवद्वा 
   वर्तमानकालस्‍य समीपे स्थित भविष्‍यस्‍य भूतस्‍य वा बोधार्थम् लट् लकार: प्रयुज्‍ज्‍यते ।  अर्थात् या क्रिया शीघ्रमेव समाप्‍ता भविष्‍यति उता सम्‍प्रति एव समाप्‍तं जातं तस्‍य कृते लटलकारस्‍य प्रयोग: क्रियते । यथा -
   कदा गोपाल: गमिष्‍यसि ? एष गच्‍छामि ।  (गोपाल कब जाओगे ? अभी जाता हूँ ।)
   कदा गोपाल आगन्‍तो असि ?  अयमागच्‍छामि ।  (गोपाल कब आये ? अभी आ रहा हूँ ।)

   कस्‍यचित् प्रश्‍नस्‍य उत्‍तरं दातुं भूतकालस्‍यार्थे अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा -
   कटम् अकार्षी: किम् ? ननु करोमि भो: ।  (क्‍या तुमने चटाई बनाई ?  हाँ बनाई है ) I

   पुन: पुन: इत्‍यस्‍य बोधार्थं लट् लकार: प्रयुज्‍ज्‍यते ।  यथा -
   मृग: प्रत्‍यहं तत्र गत्‍वा शस्‍यं खादति ।  (हिरन नित्‍य वहाँ जाकर अनाज की पौध खाया करता था ) ।

इति

टिप्पणियाँ