लट् लकारस्‍य प्रयोग: - ५

विभाषा कदा कर्ह्यो: ।३।३।५।
'कदा' 'कर्हि' च शब्‍दयो: योगे भविष्‍यत् अर्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति ।  यथा -
कदा कर्हि वा भुड्.ते ?
(कब खायेगा) ?

लोडर्थलक्षणे च ।३।३।८।
भविष्‍यत् इत्‍यस्‍यार्थे लोट् अर्थ ग्रहणे अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा -
कृष्‍णश्‍चेद् भुड्.ते त्‍वं गाश्‍चारय ।
(यदि कृष्‍ण खाना खावें तो तुम गाओं को चराओ) ।

किं वृत्‍ते लिप्‍सायाम् ।३।३।६।
प्रश्‍नसूचक भविष्‍यत् अर्थे विकल्‍पेन लट्लकारस्‍य प्रयोग: भवति ।  यथा -
अस्‍मासु कं भोजयति ?
(हम में से किसको खिलाओगे) ?

  लट् लकारस्‍य प्रयोग: भवद्भि: दृष्‍ट: ।  अग्रे भूतकालस्‍य प्रयोग: पश्‍याम: ।

इति

टिप्पणियाँ