लट् लकारस्‍य प्रयोग: - २

लट् स्‍मे ।३।२।११८। अपरोक्षे च ।३।२।११९।
लट् लकारेण सह 'स्‍म' (अव्‍यय) योजनेन भूतकालस्‍यार्थं प्राप्‍यते । यथा-
कस्‍मंश्चिद्देशे धर्म्‍मबुद्धि: पापबुद्धिश्‍च द्वे मित्रे प्रतिवसत: स्‍म ।
(किसी देश में धर्मबुद्धि और पापबुद्धि नामक दो मित्र रहते थे ) ।
विशेष - 'स्‍म' लट् लकारस्‍यान्‍ते एव भवेदिति आवश्‍यकं नास्ति, इदं वाक्‍ये क्‍वचिदपि भवितुमर्हति ।  यथा-
  • दुनोति निर्गन्‍धतया स्‍म चेत: ।
  • त्‍वं स्‍म वेत्‍थ महाराज, यत् स्‍माह न विभीषण: ।
इति

टिप्पणियाँ